________________
आह्निकम् ] प्रमेयप्रकरणम्
२९९ करणेषु युगपदुपलब्धयो न भवन्ति ततोऽवसीयते नूनं कारणान्तरधर्मेषु करणेषु युगपदुपलब्धयो न भवन्ति तच्च मन इत्याख्यायते । बुद्धेयौंगपद्याभाव एव मनःसाधनम् ननु च
सुगन्धि शीतलां दीर्घामश्नन्तः पूपशष्कुलीम् ।
कपिलब्राह्मणाः सन्ति युगपत्पञ्चबुद्धयः । अपि च अयं खल्वध्यापकोऽधीते व्रजति कमण्डलुं धारयति पन्थानं पश्यति शृणोत्यरण्यजाञ् शब्दान् बिभ्यद् व्याललिङ्गानि वुभुत्सत इति क्रमाग्रहणाद् युगपदेता बुद्धयोऽस्य भवन्तीति ? न, आशूत्पत्तेः । सुच्यग्रभिद्यमानकोकनददलकदम्बकवदतिसूक्ष्मत्त्वात् कालस्य क्रमस्तत्र न विभाव्यते भवितव्यन्तु 10 तेनेति। यदि कारणान्तरनिरपेक्षचक्षुरादिकरणसाध्या एव रूपादिविषयोपलब्धयस्तदुत्तरकालमुपहतकरणानामपि कथं स्मरणादिरूपस्तदवमर्शः ? अतो नूनं नयनादिवत् करणान्तरं तद्ग्राहि विद्यते ।
अव्यापकञ्च तत्, व्यापित्वे हि बुद्धीनां यौगपद्यं न निवर्तेत । अपि चायं व्यवहारः, उक्तेऽपि क्वचिद् वचसि कश्चिदाह नाहमेतदश्रौषमन्यत्र मे 15 मनोऽभूत् इति, तस्माद् न व्यापकं मनः ।
प्रतिशरीरमेकञ्च च तत्, अनेकत्वे पुनरपि ज्ञानयोगपद्यानपायात् । क्रियावच्च तन्निष्क्रियेणेन्द्रियाणामधिष्ठातुमशक्यत्वात् ।
मूर्तञ्च तत्, अमूर्तस्य क्रियानुपपत्तेः, मूर्तत्वे सति नित्यञ्च निरवयवत्वादनाश्रितत्वाच्च । मूर्तत्वन्त्वनित्यतायामप्रयोजकमिति वक्ष्यामः ।
20 निरवयवञ्च तत्, अवयवकल्पनायां प्रमाणाभावात् ।
वेगवच्च तत्, आशुसञ्चारात्, आशुसञ्चारमन्तरेणोपलब्धिदैय॑स्य दृष्टस्यानुपपत्तेः ।
दीर्घामश्नन्त इति । दोर्षामित्यनेन भक्ष्यमाणायाश्चक्षुर्णाह्यतामप्याह, दैर्ध्या बहिर्भागस्य त्रक्षुषा ग्रहणात् ।
25