________________
३००
न्यायमञ्जऱ्यां
[ अष्टमम्
10
इन्द्रियसंयोगि च तत्, द्रव्यत्वाद्, द्रव्यञ्च तत्, वेगादिगुणयोगात्, क्रियावत्त्वाच्चेतनाश्रितत्वाच्च ।
अचेतनञ्च तत्, करणत्वादितरेषां ह्य कत्र शरीरे चेतनद्वयसमावेशादव्यवहारः स्यादिति, तस्मादेवंरूपं मनः ।
सांख्योक्तन्तु तस्य रूपमयुक्तमिति तत्प्रक्रियानिषेधादेव व्याख्यातम् ।
अन्यान्यपि स्मत्यनुमानागमसंशयप्रतिभास्वप्नोहज्ञानानि अनन्तरसुखदुःखेच्छाद्वेषादिविषयग्राहीणि च ज्ञानानि मनसो लिङ्गानि सन्त्येव, तेषां बाह्य न्द्रियव्यापारसाध्यत्वासम्भवात्,करणरहितायाश्च क्रियाभिनिर्वृत्तेरदर्शनादिति । स्मृतिस्तावन्मनोजन्यैव, अनुमानागमज्ञानन्तु परोक्षार्थविषयत्वान्मानसं, संशयोऽपि मानसः कश्चिद् वक्ष्यते, प्रतिभा सा मानसी दर्शितैव 'श्वो मे भ्राता आगन्तेति' । स्वप्नज्ञानमपरतेन्द्रियग्रामस्य भवत् कथं न मानसम् ? तर्कोऽपि संशयवत् क्वचिद्विषये मानसो भवत्येव, सुखादीनान्तु ज्ञप्तिवदुत्पत्तिरपि मनोनिबन्धनैव, कार्याणामात्मगुणानामुत्पत्तौ प्रत्यासन्नकारणान्तरसम्भवेऽप्यात्ममनःसंयोगस्यावधृतसामर्थ्यस्यासमवायिकारणत्वात्, अतश्च विषयानुभवजन्येऽपि सुखादौ मनःसंयोगः कारणम्, सुखादीनाञ्च बोधस्वरूपत्वं संवेद्यत्वञ्च निरस्तम्, अतस्तदुपलब्धौ मनस एव कारणता । शरोरे एव आत्ममनःसंयोगः
तदिदं मनः पूर्वकृतशुभाशुभकर्मसंस्कारवतात्मना तद्वशादेब शरीरदेशे संयोगं प्रतिपद्यते तत्रैव च जीवनव्यवहारः, विपच्यमानकर्माशयसहित आत्ममनःसंयोगो जीवनमिति हि वदन्ति, संयुक्तमात्मना मनस्तेषु तेषूपपत्ति
15
20
प्रत्यासन्नकारणान्तराभावेऽपीति । ज्ञानाद्यपि तत्र कारणमस्त्येव किन्तु मूर्छाद्यवस्थानन्तरकालं ज्ञानोत्पत्तौ तस्याभावादकारणत्वेनाव्यापकत्वम् । अतोऽन्येषां व्यभिचारात् तस्यैव सामर्थ्यावधारणम् ।
विपच्यमानकर्माशयेति। आशयः संस्कारः, तत्सहितः, केवलस्य संयोगस्य 25 मृतावस्थायामपि नित्यत्वेन व्यापकत्वेन चात्मनः, सद्भावात् । उपपद्यते, देहसम्बन्ध
मनुभवति येषु तानि उपपत्तिस्थानानि ।