________________
आह्निकम् ]
प्रमेयप्रकरणम्
स्थानेषु नानाविधभोगसाधनतया संसारकारणं भवति, नित्यत्वादात्ममनसोः संयोग इति । न हि प्रथमो नाम कश्चित् कालः समस्ति आदिसर्गस्यापि पूर्वंसर्गसापेक्षत्वात्, ईश्वरोऽपि कर्मापेक्ष एव विचित्रस्य जगतः स्रष्टेति निर्णीतमेतदिति कृतं विस्तरेण ।
विदधत् सुखादिभोगं वहच्च तरलेन्द्रियाश्वसारथिताम् । बन्धनिमित्तं मन इति मनस्विना यत्नतो हेयम् ॥
प्रवृत्तिपरीक्षा
३०१
प्रवृत्तिर्वाग्बुद्धिशरीराम्भः ॥
वागिति वर्णात्मकशब्दकारणसंयोगाद्य च्यते नेन्द्रियमिति व्याख्यातम् । बुद्धिरिति न होच्यते नोपलब्धिः । शरीरं प्रसिद्धम्, तेषामारम्भो व्यापारः सैवारम्भ इति सर्वथा तदीयक्रिया प्रवृत्तिरित्युच्यते ।
5
10
प्रवृत्तिविभागः
सा च द्विविधा पुण्या पापिका च । तत्र पापिका, वाचा चतुविधा, मनसा त्रिविधा, शरीरेण त्रिविधैवेति दशविधा । वाचा प्रवृत्तिस्तत्रानृतपरुषसूचनासम्बद्धवचनरूपा चतुविधा, परद्रोहपरद्रव्याभिलाषनास्तिक्यानु- 15 ध्यानरूपा त्रिविधा मनसः प्रवृत्तिः । हिंसास्तेयप्रतिषिद्धाचरणरूपा त्रिविधा शरीरेण प्रवृत्तिः, मैथुनकरणमेवंप्रकारसुखाद्युपलक्षणम्, सेयं दशविधा प्रवृत्तिरनवरतमभिज्वलतो निरतिशयदुःखवेदनादायिनो नरकानलस्येन्धनम् । पुण्यापि सत्यप्रियहितवचनस्वाध्यायाध्ययनरूपा चतुविधा वाचा प्रवृत्तिः, जपयज्ञो हि स्वाध्यायपाठः, उपांशुनान्तः सङ्कल्पेन वा, अस्पृहानुकम्पापरलोक- 20 श्रद्धात्मिका त्रिविधा मनसा प्रवृत्तिः, दानपरित्राणपरिचरणरूपा त्रिविधा शरीरेण प्रवृत्तिरितीयमपि दशविधैव । एषा च स्वर्गसदनद्वारसोपानकल्पा । सेयमुभयतो विंशतिभेदा प्रवृत्तिः सङ्क्षेपतो द्विधैव विधिनिषेधात्मकतदवगमोपायभेदात् ।