Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 337
________________ 5 10 [ अष्टमम् का चेयमभिव्यक्तिः ? किं कार्यात्मनावस्थानम्, अथ संस्थानविशेषः, उत प्रतीतिरिति । यदि कार्यात्मनावस्थानम् ? तत् पूर्वं नाभूत् तदधुना भूतमित्यसत् कार्यम्, पूर्वमपि वा यदि तदासीत् तदा पुनः कारकवैफल्यम् । संस्थानमप्यवयवसन्निवेशविशेषः सन्नेव, ते अवयवास्तु सन्तीति कस्यात्र विवाद : ? न खलु परमाणवोऽस्माभिर्नाङ्गीकृताः । प्रतीतिस्तु घटस्य चक्षुरादिकारकसामग्रयधीनत्वेऽपि मृत्पिण्डदण्डचक्रादिकारकचक्रसाध्येति सा चक्रमूर्धनि घटस्य नास्त्येवेत्यसन् घटः । 20 २९४ न्यायमञ्जय चक्रमूर्धवत् प्रध्वंसदशायामनुपलम्भाद् घटनास्तित्वमेवेत्यतश्च 'नासतो विद्यते भावो नाभावो विद्यते सतः' इत्यप्रमाणकम्, पूर्वापरान्तयोर्भावस्वरूपादर्शनात् । शक्त्यात्मनापि यदस्तित्वमस्योच्यते तत्रापि चिन्त्यम्, केयं शक्तिर्नामेति ? यदि घटस्वरूपाद् भिन्नासौ तर्हि पररूपेण घटोऽस्तीति स्वरूपेणैव घटास्तित्वमुक्तं भवेत् तच्च प्रत्यक्षविरोधान्निरस्तम् । असत्करणपक्षे च 15 यच्चोदितं 'शशविषाणाद्यपि क्रियेत' इति, तन्न, वचनव्यक्त्यपरिज्ञानात्, यदसत् तत्क्रियते इति नेयं वचनव्यक्तिरपि तु यत् क्रियते तदसदिति । यद्विधायिनः । स्वरूपसहकार्यादिहेतवो दृश्यन्ते जन्यते तद्धि न व्योमकुसुमादिकम् ॥ प्रागभावदशायाञ्च हेतुव्यापारदर्शनम् न तु प्रध्वंसवेलायामतः कमनुयुञ्ज्महे ॥ उपादानन्तु सर्वस्य यन्न सर्वत्र दृश्यते । तन्न कार्यस्य सद्भावादपि त्वेवं निरीक्षणात् ॥ दर्शनादर्शनाधी सदसत्त्वे हि वस्तुनः । दृश्यस्यादर्शनात् तेन चक्रे कुम्भस्य नास्तिता ।। reat विद्यते भाव इत्यस्योत्तरमर्धम् " उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः । " इति । असतः शशविषाणादेः करणं नास्ति, सतश्च विनाशो नास्ति, भूतपरिणाममात्रं केवलमित्युभयोः सदसतोस्तत्त्वदर्शिभिरन्तः स्वरूपमवधृतमित्यर्थः । 25 पूर्वापरान्तयोः प्रागभावध्वंसाभावयोः ।

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384