________________
5
10
[ अष्टमम्
का चेयमभिव्यक्तिः ? किं कार्यात्मनावस्थानम्, अथ संस्थानविशेषः, उत प्रतीतिरिति । यदि कार्यात्मनावस्थानम् ? तत् पूर्वं नाभूत् तदधुना भूतमित्यसत् कार्यम्, पूर्वमपि वा यदि तदासीत् तदा पुनः कारकवैफल्यम् । संस्थानमप्यवयवसन्निवेशविशेषः सन्नेव, ते अवयवास्तु सन्तीति कस्यात्र विवाद : ? न खलु परमाणवोऽस्माभिर्नाङ्गीकृताः । प्रतीतिस्तु घटस्य चक्षुरादिकारकसामग्रयधीनत्वेऽपि मृत्पिण्डदण्डचक्रादिकारकचक्रसाध्येति सा चक्रमूर्धनि घटस्य नास्त्येवेत्यसन् घटः ।
20
२९४
न्यायमञ्जय
चक्रमूर्धवत् प्रध्वंसदशायामनुपलम्भाद् घटनास्तित्वमेवेत्यतश्च 'नासतो विद्यते भावो नाभावो विद्यते सतः' इत्यप्रमाणकम्, पूर्वापरान्तयोर्भावस्वरूपादर्शनात् । शक्त्यात्मनापि यदस्तित्वमस्योच्यते तत्रापि चिन्त्यम्, केयं शक्तिर्नामेति ? यदि घटस्वरूपाद् भिन्नासौ तर्हि पररूपेण घटोऽस्तीति स्वरूपेणैव घटास्तित्वमुक्तं भवेत् तच्च प्रत्यक्षविरोधान्निरस्तम् । असत्करणपक्षे च 15 यच्चोदितं 'शशविषाणाद्यपि क्रियेत' इति, तन्न, वचनव्यक्त्यपरिज्ञानात्, यदसत् तत्क्रियते इति नेयं वचनव्यक्तिरपि तु यत् क्रियते तदसदिति । यद्विधायिनः ।
स्वरूपसहकार्यादिहेतवो दृश्यन्ते जन्यते तद्धि न व्योमकुसुमादिकम् ॥ प्रागभावदशायाञ्च हेतुव्यापारदर्शनम् न तु प्रध्वंसवेलायामतः कमनुयुञ्ज्महे ॥ उपादानन्तु सर्वस्य यन्न सर्वत्र दृश्यते । तन्न कार्यस्य सद्भावादपि त्वेवं निरीक्षणात् ॥
दर्शनादर्शनाधी सदसत्त्वे हि वस्तुनः । दृश्यस्यादर्शनात् तेन चक्रे कुम्भस्य नास्तिता ।।
reat विद्यते भाव इत्यस्योत्तरमर्धम् " उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः । " इति । असतः शशविषाणादेः करणं नास्ति, सतश्च विनाशो नास्ति, भूतपरिणाममात्रं केवलमित्युभयोः सदसतोस्तत्त्वदर्शिभिरन्तः स्वरूपमवधृतमित्यर्थः । 25 पूर्वापरान्तयोः प्रागभावध्वंसाभावयोः ।