________________
10
आह्निकम् ] प्रमेयप्रकरणम्
२९३ कुम्भमभिनिवर्तयति न चिरातिक्रान्त इत्यतश्च परुन्मृत्पिण्डे नष्ट एव स कुम्भोत्पादः स्यात् ।
___ अथ स्वाव्यतिरिक्तमेव कारणेन कार्यं जन्यते ? तहि कारणस्य सत्त्वात् तदव्यतिरिक्तं वक्तुं युक्तम्, सदसतोविप्रतिषेधेनैकत्र समावेशायोगात् । रूपभेदादविरोध इति चेत्, न, कार्यस्य विचार्यमाणस्यैकत्वात्, ततश्च 5 तेनैव स्वेन कार्येण रूपेणासच्चेन्नासद्भवेदसच्च न सदिति । पररूपेण त्वसत्त्वं समस्तभावानामस्त्येव, अनुभयात्मकन्तु नाम वस्तु नास्त्येवेति, तत् पारिशेष्यात् सदेव कार्यम् । किमिति च नोपलभ्यत इति, अनुमानेनापि यदुपलब्धं तत् किमनुपलब्धं भवति ? प्रत्यक्षेण तु तदानीमनुपलम्भोऽनभिव्यक्तत्वात्, अभिव्यक्तिसम्पादन एव च कारकप्रयत्नसाफल्यम्, कार्यं तु सदेवेति । तत्खण्डनम्
अत्राभिधीयते, केन रूपेण तदानी कार्य सदिति मन्यते ? यदि कारकव्यापाराभिनिर्व]न सलिलाहरणाद्यर्थक्रियासमर्थन पृथुबुध्नोदराकारतारूपेण चक्रमूर्धनि घटोऽस्ति तदाभिव्यक्तेनापि रूपेण सत्त्वादत्यन्ताय कारकव्यापारवैफल्यम्, इत्थमपि च कारकप्रवृत्तौ तद्व्यापारानुपरमप्रसङ्गः, किं हि 15 तदोपलभ्य कारकाणि निवर्तेरन्, कार्यस्य प्रागप्युलब्धत्वात् । ___ अथ मृत्पिण्डरूपेण तदानीं घटोऽस्तीति कथ्यते, तत्र न ह्यसौ तदानीं घटोऽस्ति मृत्पिण्ड एवासावदो न स्वरूपमुत्तरकालमपि निवर्तते घटस्तु ततो निवर्तते, यद्येवं यदैवासौ निवर्तते तदैवास्ति न ततः पूर्वमिति ।
अथ पूर्व शक्त्यात्मना तस्यास्तित्वम् इदानीमभिव्यक्त्यात्मना क्रियत 20 इति, तदप्यनुपपन्नम्, अभिव्यक्तिरपि तत्स्वरूपाद भिन्ना अभिन्ना वा सत्यसती वेति विकल्प्यमाना न पूर्वोक्तं दोषमतिवर्तते ।
रूपभेदादविरोधः। कारणरूपेण सत्त्वम्, स्वरूपेण त्वसत्त्वादिति। वस्तु नास्त्येव । सन्नसन्नप्यसत्, तत् किं वस्तु भवति ? अनुमानेनापि यदुपलब्धम् 'असदकरणात्' इत्यादिना।
चक्रमूर्धनि घटोऽस्तीति । चक्रमूर्धनि घटसम्पत्तये यदुपात्तो मृत्पिण्डस्तत्र ।