Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
________________
२९५
आह्निकम् ]
प्रमेयप्रकरणम् अद्यत्वे व्यवहारोऽपि नैवापूर्वः प्रवर्त्यते। .. यथोपलब्धं वृद्धेभ्यः स तथैवानुगम्यते ॥ .... तैलार्थी सिकताः कश्चिदाददानो न दृश्यते । अदृष्ट्वा चाद्य नान्योऽपि तदर्थी तासु धावति ॥ .. अन्वयव्यतिरेकौ च गृह्यते । व्यवहारतः । .... 5
अनादिश्चैष संसार इति कस्यानुयोज्यता ॥ अथवा शक्तिनियमादेवोपादाननियम उपपत्स्यते ।
शक्तिस्त्वनित्या सूक्ष्मा च नेह काचिदुपेयते । ___ तदभ्युपगमे नित्यं कार्योत्पादप्रसक्तितः ॥ किन्तु योग्यतावच्छिन्नस्वरूपसहकारिसन्निधानमेव शक्तिः । सैवेयं द्विविधा 10 शक्तिरुच्यते अवस्थिता आगन्तुका च । सत्त्वाद्यवच्छिन्नं स्वरूपम् अवस्थिता शक्तिः, आगन्तुका तु दण्डचक्रादिसंयोगरूपा। शक्तिद्वयकृता च कार्यनिष्पत्तिरसकृद् दृष्टेति तदर्थिभिस्तु तदुपादानम् । योग्यतापि नार्थान्तरं किञ्चित्, किन्तु वस्तुविशेष एवेत्येवं सद् विनियमादुपादाननियमसिद्धेर्न सत् कार्यम् । न च शक्तिरेव कार्यमिति वक्तव्यम, कार्यस्वरूपस्य ततः पृथग्भूतस्य प्रतीत्या 15 व्यवस्थापनात् । शक्तश्च कार्यत्वे कार्यादेव कार्यस्योत्पादोऽङ्गीकृतः स्यात्। नच घटाद् घट उत्पत्तुमर्हति । शक्तेश्च कार्यमुत्पद्यते इत्यभ्युपगतम्, अतोअन्यत् कार्यमन्या च शक्तिः, अनुवाद्यवाचकयोर्व्यङ्गयव्यञ्जकयोश्च दीपघटयोरुभयाश्रिता शक्तिर्दृष्टेति कार्यकारणयोरपि सा कथमनुभयाधिष्ठाना भवितुमर्हति ? सति च द्वितीये कार्याख्ये तदाश्रये कथमियमुभयाश्रिता स्यादिति, नैतदेवम् । यथादर्शनं 20 शक्तेरभ्युपगमात् । तच्चैकत्र दृष्टरूपमन्यत्रापि मृग्यते । वाच्यवाचकयोर्व्यङ्गयव्यञ्जकयोश्च द्वयोः पृथक्त्वेन दर्शनादुभयाश्रिता शक्तिरङ्गीकृतेति हेतुद्वयस्यानुपलम्भात् केवलकारणवृत्तिरेव शक्तिस्तत्कृतश्चोपादाननियमविचारो युक्तः ।
उत्पत्तौ खलु सिद्धायामुपादानं विचार्यते।
सतस्तु सैव नास्तीति किमुपादानचिन्तया ॥ न च शक्तिरेव कार्यमिति । कारकाणां तत्रैव व्यापारः । कार्यन्तु सदेव शक्ती कृतायामभिव्यज्यत इति ।
Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384