Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 339
________________ २९६ न्यायमञ्ज [ अष्टमम् ___सत्कार्यवादे च सुतरामुपादाननियमो दुर्घटः, सर्वस्य सर्वत्र भावात्, सिकतातिलसरस्तीरकेदारव्युप्तबीजजनिताङ्करादिकार्यक्रमोत्पाद्यमानतिलस्वरूपपर्यालोचनया तिलेष्विव सिकतास्वपि तैलसम्भवात् । सर्वस्य सर्वत्र चास्तित्वे नियतपदार्थप्रतिष्ठितहानोपादानादिव्यवहारः सकल एव विप्लवेत । अपि च प्रायश्चित्तमेष तपस्वी तप्तकृच्छ्रमतिकष्टं कथं चरिष्यतीति । महन् ! गतोऽसि कारुण्यम् । अन्नञ्च तावदश्नात्यन्ते च वर्षोऽस्तीति विड्भक्षणात् प्रायश्चित्तीयत एवायमित्यलं सत्कार्यवादप्रमादेन । यत्पुनरत्राभाणि, कारणानुपमर्दैन कार्यानुत्पादादभावाद्भावोत्पत्तिर्भवेत् तत्र चानन्तरवृत्त्युत्पत्तिनियमो न स्याद् इति, तदप्ययुक्तम्, मूर्तानां समान10 देशत्वविरोधात् । कार्यकारणयोरेकदेशत्वं नेष्यते, नैतावता भावोत्पत्तिरभावाद् भवितुमर्हति, कारणपदेन तदुपादानदर्शनात्, अत एवानन्तर्यनियमोऽप्युपपन्नः, न च कार्यकारणयोरभेदात् सत्कार्यमिति वक्तव्यम्, तयोः प्रत्यक्षसिद्धभिन्नस्वरूपत्वात् । ___यत्तु निरालम्बना कारकप्रवृत्तिरिति चोदितं परिहृतं तद् भाष्यकारेण 15 'बुद्धिसिद्धन्तु तदसत् इति' । वृद्धव्यवहारतः कार्यकारणभावमवगम्यामुष्मात् कारणादिदमीदृशं कार्यमुत्पद्यत इति बुद्धौ निर्धार्य कारकाणि कर्ता नियुङ्क्ते इति न निर्विषयः कारकव्यापारः । तदेवं सत्कार्यवादस्य निष्प्रमाणकत्वात् तन्मूलान्वयादिहेतुसिद्धयभावान्न प्रधानास्तित्वसिद्धिः, तदभावाच्च न तद्विकृति नित्या बुद्धिः, अपि तु ज्ञानोपलब्धिरूपैवेति सम्यक् सूत्रितं 'बुद्धिरुपलब्धिर्ज्ञान20 मित्यनर्थान्तरम्' इति । बुद्धेरनित्यत्वात्माश्रितत्वे च इतश्चानित्या बुद्धिः, जानामि ज्ञास्याम्यज्ञासिषमित्युपजननापायधर्मतया पाकादिवत् कालत्रयेऽपि प्रकाशमानत्वात्, ज्ञातृव्यतिरिक्तायाश्च बुद्धेरप्रतिभासनात् । बुद्धिसिद्धन्तु तदसत् इति । 'प्राङ् निष्पत्तेनिष्पत्तिधर्मकं नासदुपादाननियमात् । कस्यचित् सिद्धये किञ्चिदुपादेयम्, न सर्वं सर्वस्य' इति । अस्य निराकरणायाह---बुद्धिसिद्धन्तु तदसदिति । इदमस्योत्पत्तये समर्थ न सर्वमिति प्रागुत्पत्तेनियतकारणं कार्य

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384