________________
२९६ न्यायमञ्ज
[ अष्टमम् ___सत्कार्यवादे च सुतरामुपादाननियमो दुर्घटः, सर्वस्य सर्वत्र भावात्, सिकतातिलसरस्तीरकेदारव्युप्तबीजजनिताङ्करादिकार्यक्रमोत्पाद्यमानतिलस्वरूपपर्यालोचनया तिलेष्विव सिकतास्वपि तैलसम्भवात् । सर्वस्य सर्वत्र चास्तित्वे नियतपदार्थप्रतिष्ठितहानोपादानादिव्यवहारः सकल एव विप्लवेत । अपि च प्रायश्चित्तमेष तपस्वी तप्तकृच्छ्रमतिकष्टं कथं चरिष्यतीति । महन् ! गतोऽसि कारुण्यम् । अन्नञ्च तावदश्नात्यन्ते च वर्षोऽस्तीति विड्भक्षणात् प्रायश्चित्तीयत एवायमित्यलं सत्कार्यवादप्रमादेन ।
यत्पुनरत्राभाणि, कारणानुपमर्दैन कार्यानुत्पादादभावाद्भावोत्पत्तिर्भवेत् तत्र चानन्तरवृत्त्युत्पत्तिनियमो न स्याद् इति, तदप्ययुक्तम्, मूर्तानां समान10 देशत्वविरोधात् । कार्यकारणयोरेकदेशत्वं नेष्यते, नैतावता भावोत्पत्तिरभावाद्
भवितुमर्हति, कारणपदेन तदुपादानदर्शनात्, अत एवानन्तर्यनियमोऽप्युपपन्नः, न च कार्यकारणयोरभेदात् सत्कार्यमिति वक्तव्यम्, तयोः प्रत्यक्षसिद्धभिन्नस्वरूपत्वात् ।
___यत्तु निरालम्बना कारकप्रवृत्तिरिति चोदितं परिहृतं तद् भाष्यकारेण 15 'बुद्धिसिद्धन्तु तदसत् इति' । वृद्धव्यवहारतः कार्यकारणभावमवगम्यामुष्मात्
कारणादिदमीदृशं कार्यमुत्पद्यत इति बुद्धौ निर्धार्य कारकाणि कर्ता नियुङ्क्ते इति न निर्विषयः कारकव्यापारः । तदेवं सत्कार्यवादस्य निष्प्रमाणकत्वात् तन्मूलान्वयादिहेतुसिद्धयभावान्न प्रधानास्तित्वसिद्धिः, तदभावाच्च न तद्विकृति
नित्या बुद्धिः, अपि तु ज्ञानोपलब्धिरूपैवेति सम्यक् सूत्रितं 'बुद्धिरुपलब्धिर्ज्ञान20 मित्यनर्थान्तरम्' इति । बुद्धेरनित्यत्वात्माश्रितत्वे च
इतश्चानित्या बुद्धिः, जानामि ज्ञास्याम्यज्ञासिषमित्युपजननापायधर्मतया पाकादिवत् कालत्रयेऽपि प्रकाशमानत्वात्, ज्ञातृव्यतिरिक्तायाश्च बुद्धेरप्रतिभासनात् ।
बुद्धिसिद्धन्तु तदसत् इति । 'प्राङ् निष्पत्तेनिष्पत्तिधर्मकं नासदुपादाननियमात् । कस्यचित् सिद्धये किञ्चिदुपादेयम्, न सर्वं सर्वस्य' इति । अस्य निराकरणायाह---बुद्धिसिद्धन्तु तदसदिति । इदमस्योत्पत्तये समर्थ न सर्वमिति प्रागुत्पत्तेनियतकारणं कार्य