________________
२९७
आह्निकम् ]
प्रमेयप्रकरणम् अयन्तु विशेषः, पाकादिक्रियाणामोदनादिफलावच्छेदद्वारकं कालवैतत्यमपि भवति, उपलब्धेस्तु वस्तुस्वरूपप्रकाशनमात्रपरिसमाप्तप्रयोजनायाः कालवैतत्यं नास्त्येव, अत एवानित्यत्वेऽप्युत्पन्नापवर्गिणीमेव बुद्धिमाचक्षते शब्दवन्न घटादिवत् कालान्तरस्थायिनीमिति; सा चेयं बुद्धिरात्मान्तःकरणशब्ददीपेन्द्रियार्थाद्यनेककारककलापकार्यापि सती न बाह्ये, न बाह्यकर्मणि 5 समवैति, न बाह्यकरणे चक्षुरादौ, नान्तःकरणे मनसि किन्तु कर्तर्येव । कर्तापि च नित्यो विभुरात्मा, न भूतसङ्घातस्वभावः कार्यः तस्या आश्रय इत्यात्मपरीक्षायां निर्णीतं गुणत्वमपि च तस्यास्तत्रैव दर्शितम् । बुद्धेरनित्यत्वप्रदर्शनम्
नन्वे तहि न बुद्धेरनित्यत्वं विनाशकारणाभावाद्, द्विविधो हि गुणानां 10 विनाशहेतुराश्रयविनाशो विरोधिगुणप्रादुर्भावो वा, नेहाश्रयविनाशो नित्यत्वादात्मनो, न च विरोधिनमस्याः कञ्चिद् गुणमुपलभामहे, न, शब्दवदाशुविनाशित्वात्, नित्याकाशगुणोऽपि शब्दः शब्दान्तरमारभ्य यथा विनश्यति तथा बुद्धिर्बुद्धयन्तरमारभ्य विनश्यतीति तथादर्शनात् कल्प्यते, यावांश्च कश्चन विनाशदर्शनभेदोपलम्भादिः शब्दस्यानित्यतायां न्याय उक्तः ।। स सर्वोऽपि बुद्धया प्रयोजनीयः, अत एव न बुद्धीनामेकप्रमातृवृत्तीनां यौगपद्य विद्यते शब्दानामिवैकवक्तृप्रयुक्तानाम् । विनश्यदविनश्यद्दशयोस्तु बुद्धयोराशुविनाशित्वेऽपि यौगपद्यमनुभवादुपेयत इत्यलमतिविस्तरेण । बुद्धेरनित्यतायाञ्च प्रायेण सर्ववादिनामविवादः, अन्यथा कथमाह जैमिनिः
बुद्धया सिद्धम्, उत्पत्तिनियमदर्शनात् । तस्मादुपादाननियमोपपत्तिरिति । ओदनादि- 20 फलावच्छेदेति । यावता कालेन ओदनादिफलप्रादुर्भाव आदित आरभ्य तावत्कालावस्थायिन्येव पाकादिक्रिया।
ननु यदि बुद्धिः बुद्धयन्तरमुत्पाद्य विनश्यति तदा तज्जातोयपदार्थदर्शनानन्तरं सुखसाधनत्वात् स्मरणकाले तज्जातीयपदार्थदर्शनस्य विनाशात् स्मरणानन्तरमुपलभ्यानुवादेन परामर्शज्ञानं सुखसाधनत्वज्ञानं वा न स्यादित्याशङ्क्याह विनश्यदविनश्य- 25 दशयोरिति । स्मरणसमये वध्यघातकन्यायेन विनश्यत्ता अतः तस्य विनाश इति ।
न्या० म० ३८