Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 336
________________ 10 आह्निकम् ] प्रमेयप्रकरणम् २९३ कुम्भमभिनिवर्तयति न चिरातिक्रान्त इत्यतश्च परुन्मृत्पिण्डे नष्ट एव स कुम्भोत्पादः स्यात् । ___ अथ स्वाव्यतिरिक्तमेव कारणेन कार्यं जन्यते ? तहि कारणस्य सत्त्वात् तदव्यतिरिक्तं वक्तुं युक्तम्, सदसतोविप्रतिषेधेनैकत्र समावेशायोगात् । रूपभेदादविरोध इति चेत्, न, कार्यस्य विचार्यमाणस्यैकत्वात्, ततश्च 5 तेनैव स्वेन कार्येण रूपेणासच्चेन्नासद्भवेदसच्च न सदिति । पररूपेण त्वसत्त्वं समस्तभावानामस्त्येव, अनुभयात्मकन्तु नाम वस्तु नास्त्येवेति, तत् पारिशेष्यात् सदेव कार्यम् । किमिति च नोपलभ्यत इति, अनुमानेनापि यदुपलब्धं तत् किमनुपलब्धं भवति ? प्रत्यक्षेण तु तदानीमनुपलम्भोऽनभिव्यक्तत्वात्, अभिव्यक्तिसम्पादन एव च कारकप्रयत्नसाफल्यम्, कार्यं तु सदेवेति । तत्खण्डनम् अत्राभिधीयते, केन रूपेण तदानी कार्य सदिति मन्यते ? यदि कारकव्यापाराभिनिर्व]न सलिलाहरणाद्यर्थक्रियासमर्थन पृथुबुध्नोदराकारतारूपेण चक्रमूर्धनि घटोऽस्ति तदाभिव्यक्तेनापि रूपेण सत्त्वादत्यन्ताय कारकव्यापारवैफल्यम्, इत्थमपि च कारकप्रवृत्तौ तद्व्यापारानुपरमप्रसङ्गः, किं हि 15 तदोपलभ्य कारकाणि निवर्तेरन्, कार्यस्य प्रागप्युलब्धत्वात् । ___ अथ मृत्पिण्डरूपेण तदानीं घटोऽस्तीति कथ्यते, तत्र न ह्यसौ तदानीं घटोऽस्ति मृत्पिण्ड एवासावदो न स्वरूपमुत्तरकालमपि निवर्तते घटस्तु ततो निवर्तते, यद्येवं यदैवासौ निवर्तते तदैवास्ति न ततः पूर्वमिति । अथ पूर्व शक्त्यात्मना तस्यास्तित्वम् इदानीमभिव्यक्त्यात्मना क्रियत 20 इति, तदप्यनुपपन्नम्, अभिव्यक्तिरपि तत्स्वरूपाद भिन्ना अभिन्ना वा सत्यसती वेति विकल्प्यमाना न पूर्वोक्तं दोषमतिवर्तते । रूपभेदादविरोधः। कारणरूपेण सत्त्वम्, स्वरूपेण त्वसत्त्वादिति। वस्तु नास्त्येव । सन्नसन्नप्यसत्, तत् किं वस्तु भवति ? अनुमानेनापि यदुपलब्धम् 'असदकरणात्' इत्यादिना। चक्रमूर्धनि घटोऽस्तीति । चक्रमूर्धनि घटसम्पत्तये यदुपात्तो मृत्पिण्डस्तत्र ।

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384