Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 334
________________ आह्निकम् ] प्रमेयप्रकरणम् २९१ भवेदिति बुद्धेः कल्पना चेत्, अस्त्येव नित्यमन्तःकरणं मनः, तेन करणेन कर्तुरात्मनो विषयोपलब्धिक्रिया निर्वय॑ते सैव च बुद्धिरित्याख्यायते न त्वन्या नित्या बुद्धिरस्तीति । किञ्च कस्य कृते परिदृश्यमानमात्मनो ज्ञानादिक्रियाकर्तृत्वमुत्सृज्य बुद्धेरदृश्यमानमुपेयते, कोऽत्राशयः । सांख्यमतसिद्धायाः बन्धमोक्षव्यवस्थाया अग्राह्यत्वम् ननु पुरुषस्य स्वातन्त्रयात्मककर्तृत्वे सति स्वकृतकर्मफलोपभोगानन्त्यादनिर्मोक्षः स्यात् । न हि कर्मणां परिक्षयो जन्मकोटिशतैरपि शक्यक्रियः । यदा तु कर्तारमुदासीनं प्रकृतिर्बध्नाति तदा सैव ज्ञाता सती मोक्ष्यतीति न दूरं मोक्षवम॑ भविष्यति । अहो बत निखिलमेव मौयं सांख्यहृदयेष्वेव प्रतिष्ठितमिति कथमन्यो जन इदानीं मो भविष्यति ? अचेतने हि निरङ्कशे 10 प्रधाने बन्धरि सुतरामनिर्मोक्षः स्यात् । तत्त्वविदमपि पुमांसं न बध्नाति प्रकृतिरिति कोऽस्या नियन्ता, पङ्ग्वन्धन्यायेन संयोगस्य तदापि तुल्यत्वात्, निवृत्तकुतूहल: पुमानिति चेत्, प्रकृतिरनिमुक्तकौतुका अभिनववधूरिव स्थितैव । ___ अपि च रे मूढ ! पूर्वमेव तपस्विना पुंसा किं कृतं यदसौ बद्धोऽभूत् ? 15 द्रष्टुत्वन्तु तस्य रूपं तदविनाभूतं कैवल्यदशायामपि तन्न नश्यत्येवेति तदापि तद्बन्धनाय कथं न प्रवर्तते निर्मर्यादा प्रकृतिः । दृष्टास्मीति विरमतीति चेत्, मैवम् । न ह्यसावेकपत्नीव्रतदुर्ग्रहगृहीता, निःसंख्यपुरुषोपभोगसौभाग्या पण्यवनितेव नासौ नियमेन व्यवहर्तुमर्हतीत्यास्तामेतत् ।। यच्च सत्त्वरजस्तमोभिस्त्रिभिर्गुणैः समावस्थतया प्रधानशब्दव्यपदेशभाग्भिः २० महन्नाम्नी बद्धिरुत्पद्यते' इत्यादि प्रक्रियाजालमालपितं तन्महान्धपरम्परान्यायप्रवृत्तगुरुपाठक्रमोपनतमेव, न प्रमाणमूलम् । कार्याद्धि कारणमल्पपरिमाणमुपलभ्यते न तु विपर्ययः, स्वावयवाश्रितस्य घटादेस्तथा दर्शनात् तदवयवानां तदपेक्षयाल्पत्वादन्यस्यास्यादो महापरिमाणत्वमप्रयोजकम् । अपि च बुद्धिर्नाम विषयोपलम्भः । अहंकारोऽप्यहंप्रत्ययरूपोऽभिमानो 25 बुद्धिविशेष एव । तेन बाह्यानीन्द्रियाणि जन्यन्ते गन्धादयश्च गुणाः गुणैश्च

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384