________________
आह्निकम् ] प्रमेयप्रकरणम्
२९१ भवेदिति बुद्धेः कल्पना चेत्, अस्त्येव नित्यमन्तःकरणं मनः, तेन करणेन कर्तुरात्मनो विषयोपलब्धिक्रिया निर्वय॑ते सैव च बुद्धिरित्याख्यायते न त्वन्या नित्या बुद्धिरस्तीति । किञ्च कस्य कृते परिदृश्यमानमात्मनो ज्ञानादिक्रियाकर्तृत्वमुत्सृज्य बुद्धेरदृश्यमानमुपेयते, कोऽत्राशयः । सांख्यमतसिद्धायाः बन्धमोक्षव्यवस्थाया अग्राह्यत्वम्
ननु पुरुषस्य स्वातन्त्रयात्मककर्तृत्वे सति स्वकृतकर्मफलोपभोगानन्त्यादनिर्मोक्षः स्यात् । न हि कर्मणां परिक्षयो जन्मकोटिशतैरपि शक्यक्रियः । यदा तु कर्तारमुदासीनं प्रकृतिर्बध्नाति तदा सैव ज्ञाता सती मोक्ष्यतीति न दूरं मोक्षवम॑ भविष्यति । अहो बत निखिलमेव मौयं सांख्यहृदयेष्वेव प्रतिष्ठितमिति कथमन्यो जन इदानीं मो भविष्यति ? अचेतने हि निरङ्कशे 10 प्रधाने बन्धरि सुतरामनिर्मोक्षः स्यात् । तत्त्वविदमपि पुमांसं न बध्नाति प्रकृतिरिति कोऽस्या नियन्ता, पङ्ग्वन्धन्यायेन संयोगस्य तदापि तुल्यत्वात्, निवृत्तकुतूहल: पुमानिति चेत्, प्रकृतिरनिमुक्तकौतुका अभिनववधूरिव स्थितैव । ___ अपि च रे मूढ ! पूर्वमेव तपस्विना पुंसा किं कृतं यदसौ बद्धोऽभूत् ? 15 द्रष्टुत्वन्तु तस्य रूपं तदविनाभूतं कैवल्यदशायामपि तन्न नश्यत्येवेति तदापि तद्बन्धनाय कथं न प्रवर्तते निर्मर्यादा प्रकृतिः । दृष्टास्मीति विरमतीति चेत्, मैवम् । न ह्यसावेकपत्नीव्रतदुर्ग्रहगृहीता, निःसंख्यपुरुषोपभोगसौभाग्या पण्यवनितेव नासौ नियमेन व्यवहर्तुमर्हतीत्यास्तामेतत् ।।
यच्च सत्त्वरजस्तमोभिस्त्रिभिर्गुणैः समावस्थतया प्रधानशब्दव्यपदेशभाग्भिः २० महन्नाम्नी बद्धिरुत्पद्यते' इत्यादि प्रक्रियाजालमालपितं तन्महान्धपरम्परान्यायप्रवृत्तगुरुपाठक्रमोपनतमेव, न प्रमाणमूलम् । कार्याद्धि कारणमल्पपरिमाणमुपलभ्यते न तु विपर्ययः, स्वावयवाश्रितस्य घटादेस्तथा दर्शनात् तदवयवानां तदपेक्षयाल्पत्वादन्यस्यास्यादो महापरिमाणत्वमप्रयोजकम् ।
अपि च बुद्धिर्नाम विषयोपलम्भः । अहंकारोऽप्यहंप्रत्ययरूपोऽभिमानो 25 बुद्धिविशेष एव । तेन बाह्यानीन्द्रियाणि जन्यन्ते गन्धादयश्च गुणाः गुणैश्च