Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
________________
5
10
15
20
[ अष्टमम्
धर्माधर्मादियोगिनि प्रत्यभिज्ञानादिकार्याणां कर्तरि सेयं बुद्धिरज्ञा सांख्यैः कल्पिता, चेतनत्वं ज्ञानादियोगिन्या अपि यत्त्वस्या नाभ्युपगतं सोऽयमतीव तपस्विनां भ्रमः । य एव बुध्यते जानात्यध्यवस्यति स एव पश्यति चेतयते च, न खल्वत्र वस्तुरूपभेदं पश्यामः । तत्र बुद्धिर्बुध्यते जानात्यध्यवस्यति, पुरुषस्तु पश्यति चेतयते चेति वञ्चनायैवमुच्यते मुग्धतया वा ।
यच्चेदमुच्यते, 'बुद्ध्याध्यवसितमर्थं पुरुषः पश्यति' इति, तद् व्याख्येयं किमिदं तस्य द्रष्टृत्वमिति ? प्रतिबिम्बनमिति चेत्, किं स्वच्छे पुंसि वृत्तिमती बुद्धि: सङ्क्रामत्युत वृत्तिमत्यां बुद्धौ प्रमातेति । तत्र 'चितिशक्तिरपरिणामिन्यप्रतिसङ्क्रमा' इति न बुद्धौ पुरुषस्य सङ्क्रमणम् । बुद्धौ तु पुंसि सङ्क्रान्तायामपि पुंसः किं वृत्तं येन द्रष्टा ? सम्बन्धो द्रष्टृत्वं स्वभाव एवास्येति चेत्, किं बुद्धिप्रतिबिम्बनेन ? विशिष्टविषयावच्छेद इति चेत्, ततः पूर्वमनालम्बनं द्रष्टृत्वमघटमानमिति न नैसर्गिकं द्रष्टृरूपं पुंसः स्यात्, दर्शनशक्तिः स्वाभाविकीति चेत्, न, तस्य भेदाभेदाभ्यां निरूपयितुमशक्यत्वात् । प्रतिबिम्बपक्षे च परस्परानुरागस्य तुल्यत्वादवियोगाच्च कथमिदं निर्धार्यताममी
धर्मा इति । न हि तयोः पार्थगर्थ्येन कदाचित् स्वरूपावधारणं वृत्तम्, अनवधारितकार्यभेदत्वाच्च नानात्वमपि तयोर्दुर्वचम्। चेतनाचेतनत्वाद् भोक्तृ भोग्यत्वाच्च विस्पष्टं तयोर्नानात्वमिति चेत्, ज्ञानादियोगित्वञ्च बुद्धेरचेतनत्वञ्चेति चित्रम् ।
अपि च कल्पयित्वा भेदधर्मं बुद्धिधर्माः पुंसि पुंधर्माश्च बुद्धावारोपणीया इति किं भेदेन, भेदे च बुद्धेर्ज्ञानादियोगित्वे च चेतनत्वापत्तेः, एकत्र कार्यकारण-सङ्घाते चेतनद्वयमनिष्टं प्रसज्यते । नित्यमन्तःकरणमन्तरेण पुंस उपलब्धिर्न
२९०
न्यायमञ्जय
अध्यवसायोत्पादकत्वाच्चाध्यवसातृत्वम् ।..... घृतादीनां सम्भवः घृतादिषु च पुष्टेघृताद्युपयोगे हि पुष्टेः सम्भवात् । पुष्टौ च सत्यां रेतआदयः रेतसि च पुत्रादयः । तेषाञ्च प्राप्तकाले मरणाच्छरीरस्य काथः कथितस्य च कृमिभावेन परिणामः, तदेव च
....
25 कथितम् । वृक्षायुर्वेदे वृक्षाणां वृद्धये श्रूयते, 'तथा च सति वृक्षस्यापि तत्र सम्भवः, वृक्षाच फलम्, फलाद् रसः, रसाद् बलमिति सर्वं क्षीरेऽस्ति, देशकालाकारापबन्धाद् न समानकालमभिव्यज्यन्ते' इति ।
Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384