Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 331
________________ २८८ न्यायमञ्ज [ अष्टमम् तस्मात तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ।। अपवर्गाय कथमात्मनः प्रकृतिरवकल्पते ? स्वरूपं प्रकाशयतीत्याचक्षते । अनवधृतप्रकृतिस्वरूपः पुमान् प्रकृतिकृतमखिलमात्मकृतमिति मन्यमानस्त5 दुपार्जितं भुङ्क्ते, यदा तु पृथग्भूतामेनां मन्यते तदा भवत्वियमायासहेतुरेव ममेति बुद्धयमानस्तत्कृतमनुपभुजानः स्वरूपनिष्ठ एवावतिष्ठते। प्रकृतिरपि भवतु दृष्टाहमनेन पृथङ् मामेष मन्यत इति न तदभिमुखीभवितुमुत्सहते । तदाह, प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति । या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य । परस्परञ्च भग्नरसयोः प्रकृतिपुरुषयोर्व्यापकत्वात् सत्यपि संयोगे सो न । प्रवर्तत एवेत्याह, दृष्टा मयेत्युपेक्षक एको दृष्टाहमित्युपरमत्येका । सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य । अपरिम्लानकुतूहलो हि पुमान् वञ्चयितुं शक्यते न दृष्टं तत्त्वमिति मत्वा, सत्यामपि योग्यतायां निवर्तते प्रकृतिर्नटीव रङ्गभूमौ प्रदर्शितनिखिलनिजनृत्तवृत्तान्तनैपुणा तत इत्याह 'रङ्गस्य दर्शयित्वा निवर्तते प्रकृतिः' । तदेवं प्रकृतिरेव संसारे प्रवर्तते प्रकृतिरेव मोक्षमनुभवतीत्याह, तस्मान्न बध्यतेऽद्धा नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ किमर्थं पुनरसावेव विशेष्यते प्रकृतिरिति ? किं क्रियते, स्वभाव एवैष दैवहतिकायास्तस्याः । लिङ्गमिति । प्रधानस्य प्रमितस्य प्रचयावस्था मूर्तिरूपा बुद्धयादिकोच्यते । प्रकृतेः सुकुमारतरमिति । यथा कुलाङ्गना सौकुमार्याल्लज्जान्वितत्वेन पुरुषेण च 25 दृष्टा पुनस्तस्य दर्शनपर्थ नावतरत्येवं प्रकृतिः सर्वतो दृष्टा पुरुषेणेत्यतो निवर्तते, न पुनस्तस्य दर्शनमुपगच्छति ।

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384