Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 329
________________ २८६ न्यायमञ्ज [ अष्टमम् तद्वतां कार्याणामेकप्रकृतित्वदर्शनात् विषयवृत्तयश्चैते गुणाः कार्येषु । दृश्यन्ते च क्वचित् सत्त्वमधिकमूने रजस्तमसी, क्वचिद्रजः प्रकृष्टमल्पे सत्त्वतमसी, क्वचित्तमः प्रवृद्धं तुच्छे सत्त्वरजसी इति। तदेषां वैषम्यभेदोपदर्शितविश्वरूपकार्याणां क्वचित् साम्यावस्थया भाव्यम्, सा प्रकृतिरुच्यते । सेयमचेतना भोग्या प्रकृतिः, तस्यास्तु भोक्ता चेतनः पुरुषः । पुरुष इदानीं किमनुमानकः ? उक्तमेव भोग्येन भोक्तुरनुमानम्, न ह्यचेतनस्य भोग्यस्य भोक्तारमन्तरेण भोग्यतोपपद्यते, दृष्टा च सेति भोक्ता कल्प्यते । स च चितिशक्तिस्वभावक एव सर्वप्रकारकर्तृत्वादिव्यवहारनिवहबहिष्कृतस्वरूपः, द्रष्टुत्वमेव पुरुषस्य स्वरूपमाहुः, न यथा भवन्तः एकमात्मानमध्यवसायादिधर्मयोगिनं मन्यन्ते तथासौ भवितु10 मर्हति अध्यवसायादेबुद्धिधर्मत्वात् । कर्तुं शक्नेति पुरुषस्तृणस्यापि न कुब्जताम् । अन्योपनीतमथ तु स पश्यत्येव केवलम् ।। प्रकृतिरेवैनं भोगापवर्गाभ्यां संयुनक्ति, न च निर्विकारा सती भोगसम्पादनसमर्था असौ भवतीति महदादिविकृतीः प्रतिपद्यते । पङ्ग्वन्धन्यायेन 15 प्रकृतिपुरुषौ संयुज्यते । प्रकृतिरचेतना दृश्या भोग्या द्रष्टारं भोक्तारं पुरुष मपेक्षते. पुरुषोऽपि द्रष्टा भोक्ता दृश्यं भोग्यमपेक्षते इत्येवं तयोः पङ्ग्वन्धवत संयोगो भवति । दर्शनशक्त्या पनोर्गमनशक्त्या चान्धस्यैकत्र मेलनात कार्यसिद्धिरेवं प्रकृतिपुरुषसंयोगात् सर्गः प्रवर्तते । तदुक्तम् , पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । ___पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ।। सङ्गतिरुपपद्यत एवेति दर्शयितुमुक्तम्, 'चतुरस्रत्वादिना परिमाणेन येऽन्विता घटादयःस्तेऽप्येकेनात्मना मृत्त्वादिना संसृष्टा उपलब्धाः' इति । व्याख्यातञ्च सविस्तरमिदं प्राक् । विषमप्रवृत्तयश्चेत्यादिना अविभागाद् वैश्वरूप्यस्येति हेतोस्तात्पर्य दर्शितम् । कार्येषु दृश्यन्ते शरीरादिषु । सत्त्वबहुलानि हि देवशरीराणि, रजोबहुलानि मनुष्यशरीराणि, तमोबहुलानि' तिर्यक्शरीराणि। अध्यवसायादिकर्मयोगिनमिति । न हि आत्मा व्यवस्यति निश्चिनोति गौरेवायमित्येवमादि, अपि तु बुद्धिमध्यवस्यन्तों पश्यत्येव स इति । निविकारा सती स्तब्धत्वात् ।

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384