Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 330
________________ आह्निकम् ] प्रमेयप्रकरणम् २८७ यच्चेत्थं प्रधानान्महत्तत्त्वमुत्पद्यते सा बुद्धिरध्यवसायात्मिका धर्मज्ञाने वराग्यैश्वर्यं तद्विपर्ययरूपवृत्तियोगिनी महत्तत्त्वमेवोच्यते । बुद्धेरहङ्कार उदेति स चाभिमानस्वभावः । अहङ्कारात् प्राणादीनि पञ्च बुद्धीन्द्रियाणि, वागादीनि पञ्च कर्मेन्द्रियाणि, सङ्कल्पकमेकादशं मनः, गन्धादितन्मात्राणि च पञ्चेति षोडशको गणः प्रभवति । ततो गन्धादितन्मात्रपञ्चकात् पञ्च पृथिव्यादीनि महाभूतानि जायन्त इति । आह, प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥ तानीमानि पञ्चविंशतितत्त्वानि सञ्चक्षते । प्रधानं प्रकृतिरेव न विकृतिः, महदहङ्कारतन्मात्राणि सप्त पूर्वापेक्षया विकृतय उत्तरोत्तरकार्या- 10 पेक्षया प्रकृतयः, एकादशेन्द्रियाणि पञ्च भूतानि विकृतय एव, अप्रकृतिविकृतिरूपस्तु शुद्धः पुरुष इति । तदाह, मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ।। 5 एवं महदादिविकारवती प्रकृतिरात्मनो भोगं साधयति । कश्चास्य भोगः ? बुद्धिवृत्त्यनुपातित्वम्, विषयाकारपरिणतेन्द्रियवृत्त्यनुरक्तां बुद्धिवृत्ति ज्ञानात्मिकां पुरुषः पश्यति, दर्शनेऽपि न तस्य किञ्चिच्चान्यत्वम्, किन्तु तदेव दर्शनं यत् तत्र प्रतिबिम्बनमिति । इत्थं तयोर्बुद्धिपुंसो: संयोगे सति पुरुष - धर्मश्चेतयितृलक्षणो बुद्धावसन्नपि सन्निव लक्ष्यते । तदाह, 15 सा बुद्धिरध्यवसायात्मिका वृत्तिवृत्तिमतोरभेदादध्यवसायलक्षणा वृत्तिरात्मा 20 यस्याः । तद्विपर्ययेति । अधर्माज्ञानावैराग्यानैश्वर्याणि तद्विपर्ययः । स चाभिमानस्वभावः । अभिमानलक्षणं कार्यं यतोऽहङ्कारस्य तेनाभिमानस्वभाव इत्युक्तः । वागादीनि पञ्च कर्मेन्द्रियाणीति । ताल्वादिस्थानविकारहेतुत्वात् तेषामिन्द्रियत्वम् । ताल्वादिस्थानविकारभूतो हि शब्दः, तस्य विकारस्य हेतुर्वागिन्द्रियम् । एवमन्येष्वपि बोद्धव्यम् । गन्धादितन्मात्राणीति । मालतीकुसुमगन्धादिना विशेषेणानाक्रान्ता गन्धाद्यविशेषावस्था तन्मात्रशब्दवाच्या । 25

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384