________________
आह्निकम् ]
प्रमेयप्रकरणम्
२८७
यच्चेत्थं प्रधानान्महत्तत्त्वमुत्पद्यते सा बुद्धिरध्यवसायात्मिका धर्मज्ञाने वराग्यैश्वर्यं तद्विपर्ययरूपवृत्तियोगिनी महत्तत्त्वमेवोच्यते । बुद्धेरहङ्कार उदेति स चाभिमानस्वभावः । अहङ्कारात् प्राणादीनि पञ्च बुद्धीन्द्रियाणि, वागादीनि पञ्च कर्मेन्द्रियाणि, सङ्कल्पकमेकादशं मनः, गन्धादितन्मात्राणि च पञ्चेति षोडशको गणः प्रभवति । ततो गन्धादितन्मात्रपञ्चकात् पञ्च पृथिव्यादीनि महाभूतानि जायन्त इति । आह,
प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥
तानीमानि पञ्चविंशतितत्त्वानि सञ्चक्षते । प्रधानं प्रकृतिरेव न विकृतिः, महदहङ्कारतन्मात्राणि सप्त पूर्वापेक्षया विकृतय उत्तरोत्तरकार्या- 10 पेक्षया प्रकृतयः, एकादशेन्द्रियाणि पञ्च भूतानि विकृतय एव, अप्रकृतिविकृतिरूपस्तु शुद्धः पुरुष इति । तदाह,
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ।।
5
एवं महदादिविकारवती प्रकृतिरात्मनो भोगं साधयति । कश्चास्य भोगः ? बुद्धिवृत्त्यनुपातित्वम्, विषयाकारपरिणतेन्द्रियवृत्त्यनुरक्तां बुद्धिवृत्ति ज्ञानात्मिकां पुरुषः पश्यति, दर्शनेऽपि न तस्य किञ्चिच्चान्यत्वम्, किन्तु तदेव दर्शनं यत् तत्र प्रतिबिम्बनमिति । इत्थं तयोर्बुद्धिपुंसो: संयोगे सति पुरुष - धर्मश्चेतयितृलक्षणो बुद्धावसन्नपि सन्निव लक्ष्यते । तदाह,
15
सा बुद्धिरध्यवसायात्मिका वृत्तिवृत्तिमतोरभेदादध्यवसायलक्षणा वृत्तिरात्मा 20 यस्याः । तद्विपर्ययेति । अधर्माज्ञानावैराग्यानैश्वर्याणि तद्विपर्ययः । स चाभिमानस्वभावः । अभिमानलक्षणं कार्यं यतोऽहङ्कारस्य तेनाभिमानस्वभाव इत्युक्तः । वागादीनि पञ्च कर्मेन्द्रियाणीति । ताल्वादिस्थानविकारहेतुत्वात् तेषामिन्द्रियत्वम् । ताल्वादिस्थानविकारभूतो हि शब्दः, तस्य विकारस्य हेतुर्वागिन्द्रियम् । एवमन्येष्वपि बोद्धव्यम् । गन्धादितन्मात्राणीति । मालतीकुसुमगन्धादिना विशेषेणानाक्रान्ता गन्धाद्यविशेषावस्था
तन्मात्रशब्दवाच्या ।
25