________________
२८८
न्यायमञ्ज
[ अष्टमम् तस्मात तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ।। अपवर्गाय कथमात्मनः प्रकृतिरवकल्पते ? स्वरूपं प्रकाशयतीत्याचक्षते । अनवधृतप्रकृतिस्वरूपः पुमान् प्रकृतिकृतमखिलमात्मकृतमिति मन्यमानस्त5 दुपार्जितं भुङ्क्ते, यदा तु पृथग्भूतामेनां मन्यते तदा भवत्वियमायासहेतुरेव
ममेति बुद्धयमानस्तत्कृतमनुपभुजानः स्वरूपनिष्ठ एवावतिष्ठते। प्रकृतिरपि भवतु दृष्टाहमनेन पृथङ् मामेष मन्यत इति न तदभिमुखीभवितुमुत्सहते । तदाह,
प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।
या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य । परस्परञ्च भग्नरसयोः प्रकृतिपुरुषयोर्व्यापकत्वात् सत्यपि संयोगे सो न । प्रवर्तत एवेत्याह,
दृष्टा मयेत्युपेक्षक एको दृष्टाहमित्युपरमत्येका ।
सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य । अपरिम्लानकुतूहलो हि पुमान् वञ्चयितुं शक्यते न दृष्टं तत्त्वमिति मत्वा, सत्यामपि योग्यतायां निवर्तते प्रकृतिर्नटीव रङ्गभूमौ प्रदर्शितनिखिलनिजनृत्तवृत्तान्तनैपुणा तत इत्याह 'रङ्गस्य दर्शयित्वा निवर्तते प्रकृतिः' । तदेवं प्रकृतिरेव संसारे प्रवर्तते प्रकृतिरेव मोक्षमनुभवतीत्याह,
तस्मान्न बध्यतेऽद्धा नापि मुच्यते नापि संसरति कश्चित् ।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ किमर्थं पुनरसावेव विशेष्यते प्रकृतिरिति ? किं क्रियते, स्वभाव एवैष दैवहतिकायास्तस्याः ।
लिङ्गमिति । प्रधानस्य प्रमितस्य प्रचयावस्था मूर्तिरूपा बुद्धयादिकोच्यते ।
प्रकृतेः सुकुमारतरमिति । यथा कुलाङ्गना सौकुमार्याल्लज्जान्वितत्वेन पुरुषेण च 25 दृष्टा पुनस्तस्य दर्शनपर्थ नावतरत्येवं प्रकृतिः सर्वतो दृष्टा पुरुषेणेत्यतो निवर्तते, न
पुनस्तस्य दर्शनमुपगच्छति ।