Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 305
________________ २६२ न्यायमञ्ज [ सप्तमम् जन्मादर्शनात्' रागादिवासनाभ्यासेन सुदृढप्ररूढेनानादिप्रबन्धप्रवृत्तेन परित्याज्यमानाः सरागा एव जन्तवो जायन्ते । न खलु लोके कश्चन तादृशो दृश्यते प्राणी यो जातो वीतरागश्चेति। स एष सरागो जायमानः पूर्वोप चितां रागादिवासनामनुसरतीति सिद्धो जन्मान्तरसम्बन्धः । 5 जगद्वैचित्र्यमदृष्टकारणजन्यमित्यदृष्टसिद्धिः तथा च केचिज्जायन्ते लोभमात्रपरायणाः । द्रव्यसङ्ग्रहणैकाग्रमनसो मूषिकादयः ॥ मनोभवमयाः केचित् सन्ति पारावतादयः । कूजप्रियतमाचञ्चुचुम्बनासक्तचेतसः ॥ केचित् क्रोधप्रधानाश्च भवन्ति भुजगादयः । ज्वलद्विषानलज्वालाजालपल्लविताननाः ॥ जगतो यच्च वैचित्र्यं सुखदुःखादिभेदतः । कृषिसेवादिसाम्येऽपि विलक्षणफलोदयः ॥ अकस्मान्निधिलाभश्च विद्युत्पातश्च कस्यचित् । क्वचित् फलमयत्नेऽपि यत्नेऽप्यफलता क्वचित् ।। तदेतद् दुर्घटं दृष्टात् कारणाद् व्यभिचारिणः । तेनादृष्टमुपेतव्यमस्य किञ्चन कारणम् ।। अदृश्यो भूतधर्मस्तु जगद्वैचित्र्यकारणम् । यदि कश्चिदुपेयेत को दोषः कर्मकल्पने ॥ संज्ञामात्रे विवादश्च तथा सत्यावयोर्भवेत् । भूतवद्भूतधर्मस्य न चादृश्यत्वसम्भवः ।। दृष्टश्च साध्वीसुतयोर्यमयोस्तुल्यजन्मनोः । विशेषो वीर्यविज्ञानसौभाग्यारोग्यसम्पदाम् ।। ज्वालाजालपल्लवितानना इति । ज्वालाजालेन पल्लवितानि संजातानि पल्लवा25 नोवाननानि येषाम् । अदृश्यो भूतधर्मस्त्विति । यथा उद्भटेन उक्तम्, "शरीरा रम्भककारणानामेव भूतानां स कश्चित् तादृशो विचित्रसुखदुःखोपभोगदो धर्मः स्वभावविशेष इत्यर्थः” । दृष्टश्च साध्वीसुतयोरिति । अनेनैव स्वमातृगतं वैगुण्यं निरस्यति ।

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384