Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 313
________________ 5 25 20 २७० न्यायमञ्जय [ अष्टमम् पञ्चभ्यो यथासङ्ख्यं घ्राणरसनचक्षुस्त्वक्श्रोत्राणि पञ्चेन्द्रियाणि भवन्ति । भूतप्रकृतित्वमिति भूतस्वभावत्वम् भूतकारणकत्वन्त्वन्येषु चतुर्ष्वपि तथैव, श्रोत्रे तु कथञ्चित् कर्णशष्कुल्यवच्छिन्ननभोभागाभिप्रायेण व्यवहारतः समर्थनीयम् । एवं भौतिकानीन्द्रियाणि स्वं स्वं विषयमधिगन्तुमुत्सहन्त इति तल्लक्षणत्वमेषां सिध्यतीति । अतो भूतेभ्य इत्युक्तम् । इन्द्रियाणां भौतिकत्वे विषयग्रहणासम्भव इति सांख्यमतम् तत्रैतत् परीक्षणीयं वर्तते किं भौतिकानामिन्द्रियाणां स्वविषयग्रहणकरणत्वमुतान्यथेति । एवं हि साङ्ख्याः सम्प्रवदन्ते आहङ्कारिकाणीन्द्रियाण्यर्थं साधयितुमर्हन्ति नान्यथा । तथा हि कारकं कारकत्वादेव प्राप्यकारि भवति, 10 भौतिकानि चेन्द्रियाणि कथं प्राप्यकारीणि दूरवर्तिनि विषये भवेयुः ? आहङ्कारिकाणान्तु तेषां व्यापकत्वाद् विषयाकारपरिणामात्मिका वृत्तिर्वृत्ति - मतो नान्या सती सम्भवत्येवेति सुवचं प्राप्यकारित्वम् । अपि च महदणुग्रहणमाहङ्कारिकत्वे तेषां कल्पते न भौतिकत्वे, भौतिकत्वे हि यत्परिमाणं ग्रहणं तत्परिमाणंग्राह्यं गृह्णीयात् । अस्ति च गोलकादधिकपरिमाणस्य पटपिठरादेर्ग्रहणं 15 हीनपरिमाणस्य च वटधानादेरतोऽपि न भौतिकानीन्द्रियाणि । भौतिकानामपि दीपादीनां परं प्रकाशयतां स्वात्मप्रकाशकत्वमपि दृष्टम् । एवमिन्द्रियाण्यपि पटादिरूपं प्रकाशयन्ति स्वरूपमपि न प्रकाशयन्तीत्यतोऽपि न भौतिकानि । , कर्णशष्कुल्यवच्छिन्ननभोभागाभिप्रायेणेति । श्रोत्रशब्दं यतः प्रयुञ्जते व्यवहर्तारोऽतः श्रोत्रव्यवहारे नभोनिमित्तत्वाच्छ्रोत्रस्यापि भौतिकत्वम् । व्यवहारतः समर्थनीयम्, तन्निमित्तत्वाद् व्यवहारस्य व्यवहारद्वारेण समर्थनीयमित्यर्थः । आहङ्कारिकाणीन्द्रियाणीति । यथा घटादयो मृद्विशेषाद् एकस्माद् मृत्तत्त्वादुत्पन्ना इति निश्चीयन्ते तथा प्रकाशविशेषाच्चक्षुरादय एकस्मात् प्रकाशविशेषादुत्पद्यन्ते । योऽसौ च प्रकाशविशेषः सोऽहङ्कारः । तेषां तु व्यापकत्वादिति । व्यापकत्वं त्वहङ्कारस्य, तत्कार्याणामिन्द्रियाणां सर्वत्र सद्भावश्च तेषां तद्वृत्तीनां सर्वत्रापि भावः । इन्द्रियाणाव्यापकत्वमिति चेत् तदाह वृत्तिर्वृत्तिमतो नान्येति । यतोऽनन्यत्वमतो विषयदेशेऽपि तेषां भावात् तदाकारनिर्भासवृत्त्युदयः ।

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384