________________
5
25
20
२७०
न्यायमञ्जय
[ अष्टमम्
पञ्चभ्यो यथासङ्ख्यं घ्राणरसनचक्षुस्त्वक्श्रोत्राणि पञ्चेन्द्रियाणि भवन्ति । भूतप्रकृतित्वमिति भूतस्वभावत्वम् भूतकारणकत्वन्त्वन्येषु चतुर्ष्वपि तथैव, श्रोत्रे तु कथञ्चित् कर्णशष्कुल्यवच्छिन्ननभोभागाभिप्रायेण व्यवहारतः समर्थनीयम् । एवं भौतिकानीन्द्रियाणि स्वं स्वं विषयमधिगन्तुमुत्सहन्त इति तल्लक्षणत्वमेषां सिध्यतीति । अतो भूतेभ्य इत्युक्तम् ।
इन्द्रियाणां भौतिकत्वे विषयग्रहणासम्भव इति सांख्यमतम्
तत्रैतत् परीक्षणीयं वर्तते किं भौतिकानामिन्द्रियाणां स्वविषयग्रहणकरणत्वमुतान्यथेति । एवं हि साङ्ख्याः सम्प्रवदन्ते आहङ्कारिकाणीन्द्रियाण्यर्थं साधयितुमर्हन्ति नान्यथा । तथा हि कारकं कारकत्वादेव प्राप्यकारि भवति, 10 भौतिकानि चेन्द्रियाणि कथं प्राप्यकारीणि दूरवर्तिनि विषये भवेयुः ? आहङ्कारिकाणान्तु तेषां व्यापकत्वाद् विषयाकारपरिणामात्मिका वृत्तिर्वृत्ति - मतो नान्या सती सम्भवत्येवेति सुवचं प्राप्यकारित्वम् । अपि च महदणुग्रहणमाहङ्कारिकत्वे तेषां कल्पते न भौतिकत्वे, भौतिकत्वे हि यत्परिमाणं ग्रहणं तत्परिमाणंग्राह्यं गृह्णीयात् । अस्ति च गोलकादधिकपरिमाणस्य पटपिठरादेर्ग्रहणं 15 हीनपरिमाणस्य च वटधानादेरतोऽपि न भौतिकानीन्द्रियाणि । भौतिकानामपि दीपादीनां परं प्रकाशयतां स्वात्मप्रकाशकत्वमपि दृष्टम् । एवमिन्द्रियाण्यपि पटादिरूपं प्रकाशयन्ति स्वरूपमपि न प्रकाशयन्तीत्यतोऽपि न भौतिकानि ।
,
कर्णशष्कुल्यवच्छिन्ननभोभागाभिप्रायेणेति । श्रोत्रशब्दं यतः प्रयुञ्जते व्यवहर्तारोऽतः श्रोत्रव्यवहारे नभोनिमित्तत्वाच्छ्रोत्रस्यापि भौतिकत्वम् । व्यवहारतः समर्थनीयम्,
तन्निमित्तत्वाद् व्यवहारस्य व्यवहारद्वारेण समर्थनीयमित्यर्थः ।
आहङ्कारिकाणीन्द्रियाणीति । यथा घटादयो मृद्विशेषाद् एकस्माद् मृत्तत्त्वादुत्पन्ना इति निश्चीयन्ते तथा प्रकाशविशेषाच्चक्षुरादय एकस्मात् प्रकाशविशेषादुत्पद्यन्ते । योऽसौ च प्रकाशविशेषः सोऽहङ्कारः । तेषां तु व्यापकत्वादिति । व्यापकत्वं त्वहङ्कारस्य, तत्कार्याणामिन्द्रियाणां सर्वत्र सद्भावश्च तेषां तद्वृत्तीनां सर्वत्रापि भावः । इन्द्रियाणाव्यापकत्वमिति चेत् तदाह वृत्तिर्वृत्तिमतो नान्येति । यतोऽनन्यत्वमतो विषयदेशेऽपि तेषां भावात् तदाकारनिर्भासवृत्त्युदयः ।