________________
आह्निकम् ]
क्रमप्राप्तमिन्द्रियपरीक्षणम्
प्रकरणम्
२६९
घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः ।
अत्रेन्द्रियाणां विषयोपलब्धिकारणत्वं सामान्यलक्षणं प्रसिद्धमेव । विभागोऽपि पञ्चबाह्येन्द्रियाणां त्वेष सूत्रित एव । स चानन्तरमेव तीर्थान्तरकथितकर्मेन्द्रियनिषेधात् साधयिष्यते ।
,
5
विशेषलक्षणानि तु पञ्चानां पञ्चसमाख्यानिर्वचनसामर्थ्यात् प्रमाणवदवगन्तव्यानि । जिघ्रत्यनेनेति घ्राणम्, घेयं गृह्णातीति गन्धोपलब्धावसाधारणं करणं घ्राणम् । चक्षुरीक्षणं लोचनं तदुच्यते । स्पृशत्यनेन स्पर्शनम्, स्पर्श गृह्णातीति स्पर्शोपलब्धावसाधारणं करणं स्पर्शनम् । स्पर्शनमिति वक्तव्ये त्वग्ग्रहणमुपचारात्, मञ्चाः क्रोशन्तीति तदधिष्ठानत्वं दर्शयितुम् । यथा त्रिपुटिकाधिष्ठानं घ्राणम्, जिह्वाधिष्ठानं रसनम्, गोलकाधिष्ठानं चक्षुः, तथा सकलत्वगधिष्ठानं स्पर्शनम् शिरःप्रभृत्यापादाङ्गुष्ठं स्पर्शोपलम्भात् । त्वगिति च न बाह्यमेव चर्म केवलमुच्यते अपि तु सकलशरीरव्यापि, तुहिनकणशिशिरसलिलपानसमयेऽन्तर्हृदयेऽपि शीतस्पर्शोपलम्भादिति । स्वावयवसमवायित्वे चेन्द्रियाणां त्रिपुटिकाद्याश्रयत्वमाश्रयमात्रापेक्षयोच्यते, न समवायित्वादिति । शृणोत्यनेनेति श्रोत्रम्, शब्दं गृह्णातीति शब्दोपलब्धावसाधारणं करणं श्रोत्रम् । तच्चाकाशैकदेशत्वादनाश्रितमपि कर्णशष्कुल्यधिष्ठानमुच्यते ।
15
तदेवं विशेषलक्षणानि पञ्च पञ्चानामुक्तानि भवन्ति, तानीमानी - न्द्रियाणि स्वविषयग्रहणलक्षणान्यात्मनो भोगसाधनत्वात् संसारकारणानीति यतया भावयितव्यानि तथा भाव्यमानानि निर्वेदोत्पादनादिद्वारेणापवर्गाय कल्पष्यन्त इति ।
इन्द्रियाणां भौतिकत्वम्
भूतेभ्य इति किमर्थम् ? उक्तं हीन्द्रियाणां स्वविषयग्रहणं भूतप्रकृतित्वे सति निर्वहति नान्यथेति तद्विनिश्चयार्थम्, यथाप्तोपदेशः शब्द इत्याप्तग्रहणम् । विषयोपलब्धिलक्षणत्वं हीन्द्रियाणां भूतप्रकृतित्वे सति निर्वहति नान्यथेति, तानि पुनरिन्द्रियकारणानि पृथिव्यापस्तेजो वायुराकाशमिति भूतानि । भूतेभ्यः
10
20
25