________________
२७१
आह्निकम् ]
प्रमेयप्रकरणम् भौतिकान्यपीन्द्रियाणि प्राप्यकारोणि
___ अत्राभिधीयते, यत् तावत् प्राप्यकारित्वं भौतिकत्वपक्षे नावकल्पत इति जल्पितवानसि, तन्मन्ये त्वया गोलकमेव चक्षुरिति चेतसि गृहीतम्, अन्यथा कथमित्थमकथयिष्यः, स चायम् आयुष्मतो महान् भ्रमः । न खलु कृष्णसारं चक्षुस्तदधिकरणन्तु तेजश्चक्षुः, तच्च वेगवद्रव्यत्वाद् दूरमपि प्रसरतीति 5 कोऽस्य प्राप्यकारितायां प्रमादः ? ___ननु च गोलके चिकित्सादिप्रयोगाद् गोलकगुणदोषानुवर्तित्वाच्च विषयोपलब्धेर्गोलकमेव चक्षुः स्यात्, अनुपलभ्यमानञ्च तेजः कथमिन्द्रियमुच्यते, कथञ्च तेजसा वेगवतापि सहसैव विस्फारिते चक्षुषि योजनशतसहस्रव्यवहितसितकरतरणितारकादि ग्रहीतुं शक्येत । कथं वा तदल्पकं वराकं 10 नायनं तेजः समन्ततः प्रसरता सकलभुवनप्रथितप्रभावेण महीयसापि मिहिरमहसा न प्रतिहतगति भवेदभ्यक्षमिति भास्करदर्शनमित्थं न सम्पयेत ? तेजःपक्षे च काचाभ्रकपटबालस्फटिकान्तरितपदार्थोपलब्धिः कथं समर्खेत ? तत्प्रतिबद्धं हि तेजः कथं प्रतिष्ठेतेति । तद्वरं शक्तिविशेषयुक्तं गोलकमेव साधो ! चक्षुरभ्युपगच्छेति ।
उच्यते । न खलु भवदनुशासनेन युक्तिविरुद्धपक्षमभ्युपगच्छामः । प्राप्यकारि हि कारकं दृष्टं कृष्णसारपक्षे च कुतः प्राप्यकारित्वम् ? शक्तिरपि कल्प्यमाना निराश्रया न परिकल्पनीयैवेति तदाश्रयचिन्तायां न गोलकमात्रमाश्रयोक्तेराश्रयो भवेत् । न सर्वेषामिन्द्रियाणां प्राप्यकारित्वम् इति शङ्का तत्समाधानञ्च 20
ननु च प्राप्यकारित्वमेव चिन्त्यं वर्तते, तद्धि रसनस्पर्शनयोः केवलमवलोक्यते लोके, चक्षुःश्रोत्रे तु दूरदेशव्यवस्थितविषयग्राहिणी कथं प्राप्यकारिणी स्याताम् । घ्राणे तु त्रिपुटिकानिकटनिहितपदार्थगन्धमपि गृह्णाति दूरतोऽपि च प्रचलदनिलबलवेल्लितफुल्लमल्लिकादिसौरभमुपलभते । त्रिपुटिकोपकण्ठढौकितेनापि द्रव्येण न तस्य सन्निकर्ष इति तदप्यप्राप्यकार्येव । 25
ननु गोलके चिकित्सादिप्रयोगादित्यादि बौद्धः प्रत्यवतिष्ठते ।
.
15