Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 321
________________ २७८ न्यायमञ्ज [ अष्टमम् दृश्यते न त्वेवं बुद्धीन्द्रियेषु। भवत्युत्पाटिताक्षस्य न मनागपि रूपधीः । ईषद्विहारादानादि दृष्टं यन्त्राज्रिपाणिषु ।। अपि च विहरणमपि न केवलं चरणयुगलकार्यम् अपि तु जानूरु5 जङ्घादिसहितपादसम्पाद्यमानमपि बाहुसहिताभ्यां पाणिभ्यामपि निर्वय॑ते न केवलाभ्याम्, वागिन्द्रियन्तु नाभेरूज़ सर्वमेव स्यादित्याहुः 'वायुर्नाभेरुत्थित उरसि विस्तीर्णः कण्ठे विवर्तितो मूर्धानमाहत्य परावृत्तो वक्त्रे चरन् विविधान शब्दानभिव्यनक्ति' इति । अस्ति चेदृगनुभवो जल्पतां विशेषतस्त्व खण्डगेयं गायतामिति । एवञ्च कर्मेन्द्रियमयमेव विश्वमिति न च शरीर10 मिन्द्रियव्यतिरिक्तं किञ्चिद् भवेत् । अथ शरीरावयवेष्वेव भिन्नकार्य कारिषु कर्मेन्द्रियव्यवहारस्तर्हि कण्ठादिभिरतिप्रसङ्ग इत्ययुक्तम्, उपस्थेन्द्रियञ्च कथमेकं गण्यते तेनानन्दवन्मत्रोत्सर्गस्यापि साधनात्, वागिन्द्रियन्तु सुतरामहृदयङ्गमम्, संयोगविभागनिर्वयॊ हि बाह्यः शब्द उपलभ्यते, तद्भेदाश्च विद्यन्ते यादृशो भेरीदण्डसंयोगजः शब्दो न तादृशः कूर्मीकोणसंयोगजः । एवं विचित्रस्थानकरणसंयोगाद् विचित्रो वर्णात्मकः शब्द उदेतीति न वागिन्द्रियं नाम किञ्चित् । लोकश्च वाक्शब्देन वर्णात्मकं शब्दमेव व्यपदिशति शब्दश्चेन्द्रियविषयो नेन्द्रियम्, तस्मादनेकविधसुखदुःखोपभोगाक्षेपक्षमकर्मपरिणामनिर्मितमेतच्छरीरं तैस्तैरवयवैस्तं तं कर्मफलोपभोगमात्मनः सम्पादयतीत्यलमेवंविधेन्द्रियकल्पनार्जवेन । मनस एवान्तःकरणत्वम् अन्तःकरणस्यापि त्रैविध्यमनुपपन्नम्, एकेन मनसैव पर्याप्तेः । बुद्धिस्तु उपलब्धिस्वभावत्वात् करणकार्या न तु करणम् । अहङ्कारोऽपि ज्ञानविषय एव न करणम्, एतच्च सविस्तरं बुद्धिलक्षणे वक्ष्यामः । तस्मान्न त्रयोदशविधं करणमिति सिद्धम् । 20 25 वागिन्द्रियं त्विति । शब्दोत्पत्तौ करणस्य वागिन्द्रियत्वाभिधानात् ।

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384