Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 325
________________ २८२ न्यायमञ्ज .. [ अष्टमम् करणे विजातीयद्रव्यावयवसंस्पर्शलेशरहितैः केवलपृथिव्यवयवैरदृष्टसहकारिभिघटितं घ्राणेन्द्रियमिति गन्धस्यैव ग्राहकम् । एतदेव च भूयस्त्वमाचक्षते । यथाह कणव्रतः 'भूयस्त्वाद् गन्धवत्त्वाच्च पृथिवी गन्धज्ञानप्रकृतिः', इहाप्यु क्तम् 'तद्व्यवस्थानन्तु भूयस्त्वात्' इति । दृश्यन्ते च केवलपृथिव्यवयवोपादाने5 ष्वपि पदार्थेषु व्यवस्थितकार्यनियमाः शक्तयः । यथा, ....... पार्थिवत्वाविशेषेऽपि विषं मरणकारणम् । अगदद्रव्यमन्यत्तु जीविताय प्रकल्पते ॥ तस्मादपर्यनुयोगोऽयं 'पार्थिवेन घ्राणेन गन्धवत् तद्रसादयोऽपि कथं न गृह्यन्ते' इति, सातिशयप्रकृतियोगेऽपि च न स्वगुणग्रहणनैपुणमिन्द्रियाणा10 मितीन्द्रियचिन्तायां निर्णीतम् । श्रोत्रेणाकाशगुणस्य शब्दस्य ग्रहणमिति परिशेषानुमानप्रमाणकोऽयमर्थः शब्दपरीक्षायामेव परीक्षित इत्यलमतिप्रसङ्गेन। इति निपुणधियामसम्मता सकलगुणैकगुणत्वकल्पना । तदयमकलुषोऽभ्युपेयतां गुणविनियोगविधिर्यथोदितः ।। तेऽमी हेयाः कृतकमधुरं रूपमादर्शयन्तस्तिक्ताहाराः परिणतिविपत्कारिणो हीन्द्रियार्थाः । त्यक्ताश्चैते व्यपगतमहामोहपङ्कन पुंसा तीर्णश्चायं भवजलनिधिः क्लेशकल्लोलरौद्रः ॥ बुद्धिपरीक्षा बुद्धिरुपलब्धिर्ज्ञानमित्यनान्तरम् ॥ ननु पर्यायोच्चारणमेतन्न बुद्धेर्लक्षणमभिधीयते, न। पर्यायप्रयोगस्यैव लक्षणक्षमत्वात् । लक्षणं हि तदुच्यते येन समानेतरजातीयेभ्यो लक्ष्यं व्यव गन्धज्ञानप्रकृतिरिति । गन्धो ज्ञायते येन तद् गन्धज्ञानं घ्राणम्, तत्र प्रकृतिः कारणम् । तद्व्यवस्थानम्, तेषां व्यवस्थानं नियतविषयग्राहकत्वम् । 25 कृतकमधुरमिति । यत एवेदृशाः विभाव्यन्तेऽत एव तिक्ताहार इव । कथमिति चेत्, तदाह 'परिणतिविपत्कारिणो हि' इति ।

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384