Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 326
________________ आह्निकम् ] प्रमेयप्रकरणम् २८३ च्छिद्यते, व्यवच्छिद्यते च बुद्धिर्बुद्ध्यादिपर्यायवाच्यतयैव तेभ्य इति नाभिधानमालामात्रमिदम् ।। ___ ननु सामयिकत्वाच्छब्दार्थप्रत्ययस्य, समयस्य च पुरुषेच्छानिवर्त्यत्वात् कथमिदं व्यवस्थितं लक्षणं स्यात् ? मैवम् । सर्वजनीनस्य समयस्य विप्लावयितुमशक्यत्वात् तद्वदिष्टस्य तद्वाच्यस्य लक्षणत्वात् । - प्रकारान्तरेण लक्षणमस्याः किमिति नोक्तमिति चेत। शिशपाचोद्यमिदम, तस्मिन्नप्युक्तेऽनुयुञ्जीत भवान् इत्यं किमिति नोक्तमिति । अस्ति च प्रयोजनं पर्यायद्वारकलक्षणोपवर्णनस्य यत् साङ्ख्यानां व्यामोहनिरसनम् । एवं हि सांख्याः सङ्गिरन्ते 'बुद्धिरन्या ज्ञानमन्यदुपलब्धिरन्या' इति तद्भमापनयनायैवमुच्यते 'बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम्' । एक एवार्थ इत्यर्थः । इत्थञ्च 10 स्वरूपतो निर्माता बुद्धिर्भोगस्वभावात् तत्साधनत्वाच्च संसारहेतुरिति हेयत्वेन भाव्यते । बुद्ध्यादीनां भेदवादिसांख्यमतम् सुखादिबुद्धिर्भोगः, तत्साधनबुद्धिस्तु भोगसाधनमिति कथं पारमर्षाः प्रवदन्ति 'बद्धिरन्योपलब्धिरन्या' इति, नित्यां हि बुद्धि ते मन्वते, तत किमात्मै- 15 वैतैः बुद्धिरिति गृहीतम् ? न, अचेतनाया भोग्यायाः प्रकृतेः प्रथमा विकृतिर्महच्छब्दवाच्या बुद्धिः, पुरुषस्तु चेतनो भोक्ता अन्य एव, ताविमौ प्रकृतिपुरुषौ विवेकेनापश्यतां संसारः, प्रकृतिपुरुषविवेकज्ञानान्मोक्षः । का पुनः प्रकृतिर्नाम ? सत्त्वरजस्तमसां त्रयाणां गुणानां साम्यावस्था प्रकृतिः । प्रधानमव्यक्त च तदुच्यते यत्साम्यावस्थागतं गुणत्रयमिति । शिशपाचोद्यमिति । यथा 'सत्स्वन्येष्वशोकवनिकायां तालतमालप्रभृतिषु रावणेन जानकी किमिति शिंशपाम् एवाधः स्थापिता' इति यदि चोद्येत तदा ‘अन्यं वृक्षमधः स्थापिता इति' अस्य चोद्यस्यानिवृत्तिः किमिति शिंशपाम् अधो न स्थापिता इति । बुद्धिरन्येति । बुद्धिर्महत् तत्त्वम्, तस्या वृत्तिविशेषो ज्ञानम्, उपलब्धिस्त्वात्मनस्तत्प्रतिबिम्बनम् इति । . 25

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384