________________
आह्निकम् ] प्रमेयप्रकरणम्
२८३ च्छिद्यते, व्यवच्छिद्यते च बुद्धिर्बुद्ध्यादिपर्यायवाच्यतयैव तेभ्य इति नाभिधानमालामात्रमिदम् ।। ___ ननु सामयिकत्वाच्छब्दार्थप्रत्ययस्य, समयस्य च पुरुषेच्छानिवर्त्यत्वात् कथमिदं व्यवस्थितं लक्षणं स्यात् ? मैवम् । सर्वजनीनस्य समयस्य विप्लावयितुमशक्यत्वात् तद्वदिष्टस्य तद्वाच्यस्य लक्षणत्वात् ।
- प्रकारान्तरेण लक्षणमस्याः किमिति नोक्तमिति चेत। शिशपाचोद्यमिदम, तस्मिन्नप्युक्तेऽनुयुञ्जीत भवान् इत्यं किमिति नोक्तमिति । अस्ति च प्रयोजनं पर्यायद्वारकलक्षणोपवर्णनस्य यत् साङ्ख्यानां व्यामोहनिरसनम् । एवं हि सांख्याः सङ्गिरन्ते 'बुद्धिरन्या ज्ञानमन्यदुपलब्धिरन्या' इति तद्भमापनयनायैवमुच्यते 'बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम्' । एक एवार्थ इत्यर्थः । इत्थञ्च 10 स्वरूपतो निर्माता बुद्धिर्भोगस्वभावात् तत्साधनत्वाच्च संसारहेतुरिति हेयत्वेन भाव्यते । बुद्ध्यादीनां भेदवादिसांख्यमतम्
सुखादिबुद्धिर्भोगः, तत्साधनबुद्धिस्तु भोगसाधनमिति कथं पारमर्षाः प्रवदन्ति 'बद्धिरन्योपलब्धिरन्या' इति, नित्यां हि बुद्धि ते मन्वते, तत किमात्मै- 15 वैतैः बुद्धिरिति गृहीतम् ? न, अचेतनाया भोग्यायाः प्रकृतेः प्रथमा विकृतिर्महच्छब्दवाच्या बुद्धिः, पुरुषस्तु चेतनो भोक्ता अन्य एव, ताविमौ प्रकृतिपुरुषौ विवेकेनापश्यतां संसारः, प्रकृतिपुरुषविवेकज्ञानान्मोक्षः । का पुनः प्रकृतिर्नाम ? सत्त्वरजस्तमसां त्रयाणां गुणानां साम्यावस्था प्रकृतिः । प्रधानमव्यक्त च तदुच्यते यत्साम्यावस्थागतं गुणत्रयमिति ।
शिशपाचोद्यमिति । यथा 'सत्स्वन्येष्वशोकवनिकायां तालतमालप्रभृतिषु रावणेन जानकी किमिति शिंशपाम् एवाधः स्थापिता' इति यदि चोद्येत तदा ‘अन्यं वृक्षमधः स्थापिता इति' अस्य चोद्यस्यानिवृत्तिः किमिति शिंशपाम् अधो न स्थापिता इति । बुद्धिरन्येति । बुद्धिर्महत् तत्त्वम्, तस्या वृत्तिविशेषो ज्ञानम्, उपलब्धिस्त्वात्मनस्तत्प्रतिबिम्बनम् इति ।
.
25