________________
२८४ न्यायमञ्जयां
[ अष्टमम् ___ननु तत्सत्त्वे किं प्रमाणम् ? अनुमानमित्याह । तथा हि चराचरमिदं विश्वं सुखदुःखमोहाविनाभूतमुपलभ्यते । न हि ब्रह्मादौ स्तम्बपर्यन्ते जगति तथाभूतं किमपि भूतमुपलभ्यते यत् सुखदुःखमोहैरविकृतम् । तत्र सुखस्वभावं सत्त्वं दुःखस्वभावं रजो मोहस्वभावं तमः, सर्वत्र प्रीत्यप्रीतिविषादादिदर्शनात् प्रकाशप्रवृत्तिनियमावगमाच्च सर्वं त्रिगुणात्मकं जगत् । कार्यञ्च तत् परस्परान्वितरूपं तदेकरूपात् कारणादुत्पद्यमानं दृश्यते, मृदन्वितानि हि घटाशरावोदञ्चनप्रभृतीनि कार्याण्येकस्मान्मृदात्मनः कारणादुद्भवन्ति, तदिदं विश्वं सुखदुःखमोहान्वितमिति तदात्मककारणकार्यं भवितुमर्हति । यत् सुख
दुःखमोहात्मकं कारणं सा सत्त्वरजस्तमोरूपा प्रकृतिः । एवमन्वयपुरःसराः 10 परिमाणादिहेतवोऽपि वक्तव्याः, इयत्तया वा, चतुरश्रतादिना वा परिमाणेन,
सर्वत्र च प्रोत्यप्रीतिविषाददर्शनादिति । शब्दादयो हि कस्यचित् प्रोति सुखमपरस्याप्रीति दुःखं कस्यचित् तु विषादं दुःखातिशयरूपं जनयन्तो दृश्यन्ते । यथा स्तनयित्नुशब्दः कर्षकाणां प्रीतिनिमित्तम्, वियोगिनीनान्तु दुःखस्य च विषादस्य च हेतुरिति ।
प्रकाशप्रवृत्तिनियमावगमाच्चेति । यथा बुद्धेः प्रकाशकत्वं सत्त्वधर्मः, अर्थग्रहणं प्रति 15 प्रवृत्तिर्या सा रजोधर्मः, नियतविषयप्रकाशकत्वं तमोधर्म इति । एवमन्वयपुरःसराः परिमाणादिहेतव इति । यदुक्तम्,
भेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद् वैश्वरूप्यस्य ।। इति ।
प्रधानसिद्धौ पञ्च वीतहेतवोऽनेनोद्दिष्टाः, तत्र समन्वयोऽमुनैव व्याख्यातः । शिष्टा व्याख्यायन्ते । यथाहि, ये ये परिमिता उत्पद्यन्ते ते ते शक्त्यात्मना संस्पृष्टाः, तद्यथा अङ्करादयः परिमिताः कललार्बुदादयश्च, देशप्रमाणकालरूपजातिप्रत्यासत्तिभिरनुक्रमेण चोत्पद्यमाना नूनं व्रीहौ शुक्रे शोणिते च संस्पृष्टाः । उत्पद्यन्ते च कार्यकारणात्मका आध्यात्मिका भेदाः षोडशसङ्ख्याकाः बाह्याश्च देवमनुष्यतिर्यग्भेदात् त्रिविधाः । तेऽपि कचित्
संस्पृष्टाः। यद्धि नियतपरिमाणं समुत्पद्यमानं दृष्टं महदादि तदेकत्र संस्पृष्टम् । अन्यथा 29 नियतक्रमेण नियतपरिमाणस्योत्पत्त्यसम्भवात् । तथा चामी आध्यात्मिका बाह्याश्च भेदाः ।
तस्मात् तेऽप्येकत्र संस्पृष्टा जायन्ते । तेषां यत्र संसर्गोऽभूत् तत् प्रधानमिति । शक्तितः
20