________________
आह्निकम् ]
प्रवृत्तेश्च । इह त्रिकालावस्थितप्रकृत्यनुगताः कार्यकारणात्मका भेदा इति धर्मिनिर्देशः । शक्तिरूपैककारणपूर्वका इति साध्यम् । प्रवृत्तिदर्शनादिति हेतुः । परिनिष्ठितं कार्येण कारणरूपं मृदादि रथादिवत् । मृदादीनां रथादीनाञ्च प्राक् प्रवृत्तेरस्ति प्रवृत्तिशक्तिः । कथमन्यथा घटादिकरणे वाहनादिकरणे च अशक्तत्वात् ते प्रवर्तेरन् ? प्रवृत्तिकाले चैषामस्ति प्रवृत्तिशक्तिरन्यथा ते कार्यमनारभेरन् । अतः प्रवृत्तिकाले शक्तेः सद्भावः । एवमूर्ध्वमपि प्रवृत्तिशक्तिसद्भाव:, यतः निवृत्तव्यापारा अपि रथादयः शक्तेरनिवृत्तत्वात् तथाविधकार्यकरणे पुनः प्रवर्तमाना दृश्यन्ते । अन्यथा शक्तेरभावाद् न प्रवर्तेरन् । अतस्तेषां प्राग्भाविनी शक्तिः प्रवृत्तेः कारणम् । तेन ते शक्तिरूपैककारणपूर्वकाः । सन्ति चाध्यात्मिकानां कार्यकारणात्मकानां भेदानां प्रवृत्तयः । तस्मात् तेऽप्यवश्यं शक्तिपूर्वकाः । यत्र चैषां शक्त्यवस्था तत् प्रधानम् । कारणकार्यविभागादिति । इहावस्थितभावपूर्वका: 10 भेदाः कारणकार्यविभागात् परस्परोपकारकोपकार्यविभागाच्छ्यनाद्यङ्गवत् । खट्वादीनां ह्यवयवा आरभन्ते उत्तरकार्येण व्यवस्थिताः परस्परोपकारेण च वर्तमाना बुद्धिमदेककर्तृका, दृष्टाः । वर्तन्ते चाध्यात्मिका बाह्याश्च भेदा इतरेतरोपकारेण, तस्मान्न ते यतस्तत आगता, अपि वितरेतरौन्मुख्येन अत एवैकरूपात्मनावस्थितास्ते त्रिगुणात्मके प्रधाने यस्येदं विश्वं प्रेक्षापूर्वमिव कृतमवसीयते । इह पुरुषार्थप्रयुक्ता गुणा परस्परोपकारेण वर्तन्ते । यथा 15 सत्त्वं रजस्तमसोः शब्दादौ कार्ये श्रवणादौ च कारणे प्रवर्तमानयोः कार्यसम्पत्त्यर्थं प्रकाशयति । सत्त्वतमसोः स्वस्वकार्ये प्रवर्तमानयोः रजः प्रवृत्तिं करोति । सत्त्वरजसोस्तु स्वकार्यप्रवर्तमानयोस्तमो नियमयति । यथा तथाविधकार्यसम्पत्तिरेवं शरीरादिपृथिव्यादीनां वृत्तिसंग्रहयुक्तिव्यूहावकाशदानैः परस्परार्थंकरणं दृष्टम्, तदेवं पस्स्परोपकारकोपकार्यभावेनावस्थितं विश्वमवश्यमेककर्तृकमवसीयते । यश्चैकः कर्ता सत्रिगुणात्मकं प्रधानमिति । अविभागाद् वैश्वरूप्यस्य । इह विश्वरूपा बाह्याध्यात्मिका भावा अविभागा उत्पद्यन्ते वैश्वरूप्यात्, जलभूम्यविभागपूर्वकस्थावरजङ्गमवैश्वरूप्यवत् । देशादिप्रत्यासत्त्या जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरे दृष्टम् । स्थावराणां जङ्गमेषु, जङ्गमानां स्थावरेषु, स्थावराणां स्थावरेषु, जङ्गमानां जङ्गमेषु इत्येवं जात्यनुच्छेदेनोपादानकारणानुपदेन सर्वं सर्वात्मकम्, देशकालाकारनिमित्तानुबन्धात् तु खलु न समानकालं सर्वेषामात्मनामभिव्यक्तिरिति । दृश्यते चेदं विश्ववैश्वरूप्यम्, तस्यादविभक्तरूपसुखदुःखमोहरूपजातिपूर्वकमिति परमाविभागावस्थारूपप्रधानसिद्धिः । इयत्तया चतुरस्त्रत्वादिना चेति । सूत्रगतस्य परिमाणशब्दस्योभयथापि व्याख्याने हेतुत्वेन
प्रमेयप्रकरणम्
२८५
5
20
25