________________
२७८ न्यायमञ्ज
[ अष्टमम् दृश्यते न त्वेवं बुद्धीन्द्रियेषु।
भवत्युत्पाटिताक्षस्य न मनागपि रूपधीः ।
ईषद्विहारादानादि दृष्टं यन्त्राज्रिपाणिषु ।।
अपि च विहरणमपि न केवलं चरणयुगलकार्यम् अपि तु जानूरु5 जङ्घादिसहितपादसम्पाद्यमानमपि बाहुसहिताभ्यां पाणिभ्यामपि निर्वय॑ते न
केवलाभ्याम्, वागिन्द्रियन्तु नाभेरूज़ सर्वमेव स्यादित्याहुः 'वायुर्नाभेरुत्थित उरसि विस्तीर्णः कण्ठे विवर्तितो मूर्धानमाहत्य परावृत्तो वक्त्रे चरन् विविधान शब्दानभिव्यनक्ति' इति । अस्ति चेदृगनुभवो जल्पतां विशेषतस्त्व
खण्डगेयं गायतामिति । एवञ्च कर्मेन्द्रियमयमेव विश्वमिति न च शरीर10 मिन्द्रियव्यतिरिक्तं किञ्चिद् भवेत् । अथ शरीरावयवेष्वेव भिन्नकार्य
कारिषु कर्मेन्द्रियव्यवहारस्तर्हि कण्ठादिभिरतिप्रसङ्ग इत्ययुक्तम्, उपस्थेन्द्रियञ्च कथमेकं गण्यते तेनानन्दवन्मत्रोत्सर्गस्यापि साधनात्, वागिन्द्रियन्तु सुतरामहृदयङ्गमम्, संयोगविभागनिर्वयॊ हि बाह्यः शब्द उपलभ्यते, तद्भेदाश्च विद्यन्ते यादृशो भेरीदण्डसंयोगजः शब्दो न तादृशः कूर्मीकोणसंयोगजः । एवं विचित्रस्थानकरणसंयोगाद् विचित्रो वर्णात्मकः शब्द उदेतीति न वागिन्द्रियं नाम किञ्चित् । लोकश्च वाक्शब्देन वर्णात्मकं शब्दमेव व्यपदिशति शब्दश्चेन्द्रियविषयो नेन्द्रियम्, तस्मादनेकविधसुखदुःखोपभोगाक्षेपक्षमकर्मपरिणामनिर्मितमेतच्छरीरं तैस्तैरवयवैस्तं तं कर्मफलोपभोगमात्मनः सम्पादयतीत्यलमेवंविधेन्द्रियकल्पनार्जवेन । मनस एवान्तःकरणत्वम्
अन्तःकरणस्यापि त्रैविध्यमनुपपन्नम्, एकेन मनसैव पर्याप्तेः । बुद्धिस्तु उपलब्धिस्वभावत्वात् करणकार्या न तु करणम् । अहङ्कारोऽपि ज्ञानविषय एव न करणम्, एतच्च सविस्तरं बुद्धिलक्षणे वक्ष्यामः । तस्मान्न त्रयोदशविधं करणमिति सिद्धम् ।
20
25
वागिन्द्रियं त्विति । शब्दोत्पत्तौ करणस्य वागिन्द्रियत्वाभिधानात् ।