________________
आह्निकम् ] प्रमेयप्रकरणम्
२७७ आह च 'सव्यदृष्टस्येतरेण प्रत्यभिज्ञानाद्' इति । चक्षुष्टवजातेरेकत्वादिति चेत्, तीन्द्रियत्वजातेरेकत्वादेकमिन्द्रियं स्यात् ? उच्यते, चक्षुस्तावत् तेज इति निर्णीतम्, ततश्चैकमेव तदधिष्ठानमेकघ्राणवंशव्यवहितमनेकमिवोपलभ्यते, भिन्नं वा तद् भवतु तेजः, तत्कायॆक्यादाश्रयभेदेऽप्येकमेव । श्रोत्रमपि कर्णच्छिद्रद्वयानुस्यूतमेकमेव नभोदेशप्रायं कार्यकत्वस्यापि भावात् ।
तेनाधिष्ठानभेदेऽपि कार्यैकत्वस्य दर्शनात् ।
तत्सामान्यस्य चैकत्वादेकत्वं श्रोत्रचक्षुषोः ॥ न चेन्द्रियजातेरैक्यादेकमिन्द्रियम् । कार्यस्योपलब्धिलक्षणस्य, कारणस्य पृथिव्यादेः, विषयस्य गन्धादेः, अधिष्ठानस्य त्रिपुटकादेर्गतेश्व, घ्राणत्वादेर्जातिशब्दवाच्यस्य, योनेर्वा पृथिव्यादेः पञ्चविधत्वात् पञ्चैवेन्द्रियाणि कल्प्यन्ते । 10 यथा परमाणुसामान्याविशेषेऽपि पृथिव्यादिचतुर्विधकार्यदर्शनाच्चतुर्विधाः परमाणवः कल्प्यन्त इति ।
कर्मेन्द्रियत्वेन स्वीकृतानामिन्द्रियत्वखण्डनम्
ननु तथापि न पञ्चेन्द्रियाणि, बुद्धीन्द्रियवत् कर्मेन्द्रियाणामपि पञ्चानामुपसंख्येयत्वात् । तदुक्तं वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाण्याहुः । 15 तेषाञ्च वचनादानविहरणोत्सर्गानन्दात्मकपञ्चविधकार्यसाधनादिन्द्रियत्वं तत्कार्यस्यानितरेतरसाध्यत्वादिति ।
अत्राहुः, अत्यल्पमिदमुच्यते पञ्च कर्मेन्द्रियाणीति । अन्यान्यपि खलु न सन्ति कर्मेन्द्रियाणि? तथा हि कण्ठोऽन्ननिगरणेन, स्तनकलशालिङ्गनादिना वक्षो भारवहनेन चांसद्वयमिन्द्रियमुच्यते न कथम् ? तत्कार्यस्य शरीरावय- 20 वान्तरेऽपि दर्शनादिति चेत्, किन्तु भवानन्नपानं पाणिपादेन निगिरति पायुना वा ? आदानमपि किमास्यादिना वा न कुर्वते तिर्यञ्चो मनुष्या अपि हि क्वचित्, असत्स्वपि भवत्कल्पितेषु कर्मेन्द्रियेषु तत्कार्यं यावत्तावदन्यथापि
कार्यस्योपलब्धिलक्षणस्येत्यादिना “न, बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः" इति सूत्रं व्याचष्टे । बुद्धिरेव लक्षणं कार्यभूता।
25