Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 315
________________ २७२ न्यायमञ्ज [ अष्टमम् तस्माच्छक्तिविशेषणमधिष्ठानमेव तत्तदिन्द्रियमिति गृह्यताम्, उत्सृज्यतां प्राप्यकारित्वपक्षः । चक्षुषि च चन्द्रार्कग्रहादिग्राहिणि नतरां प्राप्यकारित्वमित्युक्तमेव। ___ अत्रोच्यते । न प्राप्यकारित्वमुत्स्रष्टुं शक्नुमः, कारकत्वमेव हि तथा सत्येषामुत्सृजेम, कारकञ्चाप्राप्यकारि चेति चित्रम् । अदृष्टमपि कारणमात्मनो व्यापकत्वात् तद्वृत्ति धर्मादिकं न प्राप्यकारि भवेत्, किमुत दृष्टं चक्षुरादि कारकमिति । अप्राप्यकारित्वे च शक्तेरविशेषात् कुड्यादिव्यवहितमपि वस्तु चक्षुषा दृश्येत । तत्र कार्यानुपलम्भान्न शक्तिः कल्प्यत इति चेत्, किं शक्तिः कल्प्यतां किं तेज इति सम्प्रधारणायां तेजसो द्रव्यत्वाद् व्यवधानाद्यनुगुणम10 मूर्तायास्तु शक्तेर्व्यवधानमबाधकं भवेदिति तेज एवेन्द्रियं कल्पनीयं न शक्तिः शक्तिमदधिष्ठानं वा । प्राप्यकारिता च श्रोत्रस्य तावद् देशसन्तानसदृशशब्दपरम्परारम्भणद्वारेण दर्शिता शब्दाधिकरणे । घ्राणस्यापि समीरणान्दोलितकुन्दलतादिप्रसृततत्परमाणुनिकराधिकरणगन्धग्रहणात् प्राप्यकारिता । न च परमाणपसर्पणाद् द्रव्यपरिक्षयाद्याशङ्कनीयम्, भूयस्त्वात् परमाण15 नाम् । अत एव गन्धद्वारकतद्रव्यसम्पर्कदोषनिर्हरणाय प्रायश्चित्तमशुचिद्रव्य घ्राणे समामनन्ति । चक्षुषस्तेजःप्रसरणात् प्राप्यकारिता, अनुपलभ्यमानं तेज इति चेत्, किं चन्द्रमसः परभाग उपलभ्यते पृथिव्याश्चाधोभागः ? न खलु प्रत्यक्षकशरणाः पदार्थाः, अनुमानादिभिरेषामुपलम्भः सम्भवत्येव । उक्तञ्चानु मानं रूपोपलब्धिकार्येण तैजसमेव चक्षुरनुमीयते, तेजोद्रव्यं हि दीपादि रूपस्य 20 प्रकाशकं दृष्टमिति । चक्षुषस्तैजसत्वे प्रत्यक्षत्वापत्तिनिरासः प्रत्यक्षेण तु नायनं तेजः किमिति नोपलभ्यत इति, तदुच्यते, विचित्रा हि द्रव्यगुणानामुद्भवाभिभवादिवशेन गतयो भवन्ति । तद् यथा, सर्वतः प्रसरता प्रायश्चित्तमशुचिद्रव्यघ्राण इति । तथा च पठन्ति । अनृतं मद्यगन्धञ्च दिवामैथुनमेव च । भुनक्ति वृषलस्यान्नं बहिःसन्ध्याम् उपासीत ॥ इत्यादि ।

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384