Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 314
________________ २७१ आह्निकम् ] प्रमेयप्रकरणम् भौतिकान्यपीन्द्रियाणि प्राप्यकारोणि ___ अत्राभिधीयते, यत् तावत् प्राप्यकारित्वं भौतिकत्वपक्षे नावकल्पत इति जल्पितवानसि, तन्मन्ये त्वया गोलकमेव चक्षुरिति चेतसि गृहीतम्, अन्यथा कथमित्थमकथयिष्यः, स चायम् आयुष्मतो महान् भ्रमः । न खलु कृष्णसारं चक्षुस्तदधिकरणन्तु तेजश्चक्षुः, तच्च वेगवद्रव्यत्वाद् दूरमपि प्रसरतीति 5 कोऽस्य प्राप्यकारितायां प्रमादः ? ___ननु च गोलके चिकित्सादिप्रयोगाद् गोलकगुणदोषानुवर्तित्वाच्च विषयोपलब्धेर्गोलकमेव चक्षुः स्यात्, अनुपलभ्यमानञ्च तेजः कथमिन्द्रियमुच्यते, कथञ्च तेजसा वेगवतापि सहसैव विस्फारिते चक्षुषि योजनशतसहस्रव्यवहितसितकरतरणितारकादि ग्रहीतुं शक्येत । कथं वा तदल्पकं वराकं 10 नायनं तेजः समन्ततः प्रसरता सकलभुवनप्रथितप्रभावेण महीयसापि मिहिरमहसा न प्रतिहतगति भवेदभ्यक्षमिति भास्करदर्शनमित्थं न सम्पयेत ? तेजःपक्षे च काचाभ्रकपटबालस्फटिकान्तरितपदार्थोपलब्धिः कथं समर्खेत ? तत्प्रतिबद्धं हि तेजः कथं प्रतिष्ठेतेति । तद्वरं शक्तिविशेषयुक्तं गोलकमेव साधो ! चक्षुरभ्युपगच्छेति । उच्यते । न खलु भवदनुशासनेन युक्तिविरुद्धपक्षमभ्युपगच्छामः । प्राप्यकारि हि कारकं दृष्टं कृष्णसारपक्षे च कुतः प्राप्यकारित्वम् ? शक्तिरपि कल्प्यमाना निराश्रया न परिकल्पनीयैवेति तदाश्रयचिन्तायां न गोलकमात्रमाश्रयोक्तेराश्रयो भवेत् । न सर्वेषामिन्द्रियाणां प्राप्यकारित्वम् इति शङ्का तत्समाधानञ्च 20 ननु च प्राप्यकारित्वमेव चिन्त्यं वर्तते, तद्धि रसनस्पर्शनयोः केवलमवलोक्यते लोके, चक्षुःश्रोत्रे तु दूरदेशव्यवस्थितविषयग्राहिणी कथं प्राप्यकारिणी स्याताम् । घ्राणे तु त्रिपुटिकानिकटनिहितपदार्थगन्धमपि गृह्णाति दूरतोऽपि च प्रचलदनिलबलवेल्लितफुल्लमल्लिकादिसौरभमुपलभते । त्रिपुटिकोपकण्ठढौकितेनापि द्रव्येण न तस्य सन्निकर्ष इति तदप्यप्राप्यकार्येव । 25 ननु गोलके चिकित्सादिप्रयोगादित्यादि बौद्धः प्रत्यवतिष्ठते । . 15

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384