________________
२६२ न्यायमञ्ज
[ सप्तमम् जन्मादर्शनात्' रागादिवासनाभ्यासेन सुदृढप्ररूढेनानादिप्रबन्धप्रवृत्तेन परित्याज्यमानाः सरागा एव जन्तवो जायन्ते । न खलु लोके कश्चन तादृशो दृश्यते प्राणी यो जातो वीतरागश्चेति। स एष सरागो जायमानः पूर्वोप
चितां रागादिवासनामनुसरतीति सिद्धो जन्मान्तरसम्बन्धः । 5 जगद्वैचित्र्यमदृष्टकारणजन्यमित्यदृष्टसिद्धिः
तथा च केचिज्जायन्ते लोभमात्रपरायणाः । द्रव्यसङ्ग्रहणैकाग्रमनसो मूषिकादयः ॥ मनोभवमयाः केचित् सन्ति पारावतादयः । कूजप्रियतमाचञ्चुचुम्बनासक्तचेतसः ॥ केचित् क्रोधप्रधानाश्च भवन्ति भुजगादयः । ज्वलद्विषानलज्वालाजालपल्लविताननाः ॥ जगतो यच्च वैचित्र्यं सुखदुःखादिभेदतः । कृषिसेवादिसाम्येऽपि विलक्षणफलोदयः ॥ अकस्मान्निधिलाभश्च विद्युत्पातश्च कस्यचित् । क्वचित् फलमयत्नेऽपि यत्नेऽप्यफलता क्वचित् ।। तदेतद् दुर्घटं दृष्टात् कारणाद् व्यभिचारिणः । तेनादृष्टमुपेतव्यमस्य किञ्चन कारणम् ।। अदृश्यो भूतधर्मस्तु जगद्वैचित्र्यकारणम् । यदि कश्चिदुपेयेत को दोषः कर्मकल्पने ॥ संज्ञामात्रे विवादश्च तथा सत्यावयोर्भवेत् । भूतवद्भूतधर्मस्य न चादृश्यत्वसम्भवः ।। दृष्टश्च साध्वीसुतयोर्यमयोस्तुल्यजन्मनोः ।
विशेषो वीर्यविज्ञानसौभाग्यारोग्यसम्पदाम् ।।
ज्वालाजालपल्लवितानना इति । ज्वालाजालेन पल्लवितानि संजातानि पल्लवा25 नोवाननानि येषाम् । अदृश्यो भूतधर्मस्त्विति । यथा उद्भटेन उक्तम्, "शरीरा
रम्भककारणानामेव भूतानां स कश्चित् तादृशो विचित्रसुखदुःखोपभोगदो धर्मः स्वभावविशेष इत्यर्थः” । दृष्टश्च साध्वीसुतयोरिति । अनेनैव स्वमातृगतं वैगुण्यं निरस्यति ।