________________
आह्निकम् ] प्रमेयप्रकरणम्
२६३ स्वाभाविकत्वं कार्याणामधुनैव निराकृतम् । तस्मात् कर्मभ्य एवैष विचित्रजगदुद्भवः ।। कर्मणां यदि वैचित्र्यं कर्मान्तरकृतं यदि । अनिष्टं तत् स्वतः सिद्धं जगत्येव तदिष्यताम् ॥ कर्मणां शास्त्रतो ज्ञाता विचित्रफलशक्तता । दृष्टार्थेषु च वाक्येषु दृष्टा प्रत्यक्षतोऽपि सा ॥ तस्माद् दृष्टस्य कार्यस्य युक्ता कारणकल्पना । कारणस्य त्वदृष्टत्वात् किं हेत्वन्तरचिन्तया ॥ हेत्वन्तरनिमित्तेऽपि कर्मवैचित्र्यकल्पने । संसारस्य त्वनादित्वान्नानवस्था भयावहा । तथा च पुण्यः पुण्येन पापः पापेन कर्मणा।
जायते जन्तुरित्येवं धर्मशास्त्रेषु पठ्यते ।। तथा च गौतमः "पुण्यः पुण्येन कर्मणा भवति पापः पापेन'' इति ।
तस्मात् कुतर्कमूलेन दृष्टकार्योपघातिना । सर्वलोकविरुद्धेन चोद्येन कृतमीदृशा ॥ तस्मात् कल्प्यानि कर्माणि दृष्टकार्योपपत्तये । एवञ्च क्षणभङ्गित्वात् संस्कारद्वारिका स्थितिः । स कर्मजन्यसंस्कारो धर्माधर्मगिरोच्यते । विना च नित्यमात्मानं क्व धर्माधर्मयोः स्थितिः ॥
15
कर्मणा ननु वैचित्र्यमिति । प्राणिनां विचित्रसुखदुःखादिकार्यदर्शनाद् यद् एतत् कर्म- 20 वैचित्र्यमनुमीयते तत् किं स्वाभाविकम् आहोस्वित् फलवैचित्र्यवद् हेत्वन्तरजम् ? किं स्वभावत एव तादृशविचित्रकर्मसम्पादनं तस्य वृत्तमुत कर्मान्तरप्रयुक्तस्येत्यर्थः । स्वाभाविकत्वे फलनैचित्र्यमपि स्वाभाविकमस्तु, हेत्वन्तरजत्वेऽनवस्था, तद्धेतूनामपि तथाविचित्रकर्मजनकत्वस्य हेत्वन्तरजनितत्वादिति । कर्मणां शास्त्रतो ज्ञातेति । अग्निहोत्रादिकर्मणां शास्त्रतः फलशक्तियोगितां ज्ञात्वा फलार्थी तेषु प्रवर्तते, न पुनः कर्मान्तरं 25 तत्प्रवृत्तौ कारणमित्यर्थः । दृष्टार्थेषु हरीतकीभक्षणादिषु। हेत्वन्तरनिमित्तेऽपि कर्मान्तरकृतकर्मवैचित्र्ये । पुण्यः पुण्यकर्मकारी ।