________________
२६१
10
आह्निकम् ।
प्रमेयप्रकरणम् तदेवं कारणनियमोऽपि कार्यविशेषदर्शनाद् दुरुपह्नव इति मुखविकासस्य हर्ष एव कारणमवगम्यते, सहस्रकृत्वस्तथा दर्शनात् । अचेतनानां तु तामरसादीनां विकासकारणं तरणिकिरणनिकरपरिष्वङ्गाधुपलब्धम् इति तदपि न स्वाभाविकम् ।
तस्मान्मुखविकासस्य हर्षो हर्षस्य च स्मृतिः ।
स्मृतेरनुभवो हेतुः स च जन्मान्तरे शिशोः ।। ननु शिशोर्जन्मान्तरानुभूतस्मरणे सर्वदा सर्वस्मरणप्रसङ्गः ? न । यावत् कार्य कारणकल्पनान्न सर्वदा सर्वस्मरणं संवेद्यते । न च तत्कल्पनायां कारणमुपलभ्यते । न चैकदर्शनात् सर्वं कल्प्यम्, दृष्टमपि वा निह्रोतव्यमिति परीक्षकाणामुचित एव पन्था इत्यसकृदुक्तम् ।
अपि च पयसस्तृप्तिहेतुत्वमनुस्मरन् बालकः स्तन्याभिलाषेण मातुः स्तनतटे दृष्टिं निदधाति न चाद्य तेन तस्य तत्साधनत्वमवगतमिति जन्मान्तरे सम्बन्धग्रहणमस्य वृत्तमिति मन्यामहे ।
न चायस्कान्तदृष्टान्तसमाश्रयेण स्वाभाविकमेतद् बालकस्य कुचकलशनिमित्तोपसर्पणमिति वक्तुमुचितमनन्तरमेव निरस्तत्वात् ।
15 ननु च गर्भशय्याशायिनोऽप्यपरितोषदर्शनात् तत्साधनोपादाने तदनुस्मरणमेव प्राप्नोति ? यदि कार्यमवगम्यते तत्रापि तत्कारणं कल्प्यतां को दोषः, तत्र तु जनयित्रीजठरपतितान्नपानपरिपाकसक्रान्त्या तत्परिपोषमायुर्वेदविदो वदन्तीति कथं तत्र स्मरणादिकल्पना ? कल्पनायां वा प्रथम निषेकान्तरमेव कललादिशुक्रशोणितविकारसम्भवात्तद्दशास्वपि स्मरणकल्पना- 20 प्रसङ्गः । न तावत् कल्पनायामपि काचिदस्माकं क्षतिः । अयन्तु स्तन्याभिलाषेण कुचक्षीरकलशावलोकनोपसर्पणादरो दारकस्य तदनुस्मरणकृत एवेति सर्वथा जन्मान्तरसम्बन्धानुमानान्नित्य आत्मेति । अतश्चैवं 'वीतराग
अनन्तरमेव निरस्तत्वादिति । अयस्यपि क्रियायाः सनिमित्तत्वम्, कार्यस्य निर्हेतुको कार्यत्वहानिप्रसङ्गादिति ।
"वीतरागजन्मादर्शनात्" ति न्यायसूत्रम् ।