________________
२६० न्यायमञ्जऱ्यां
[ सप्तमम् युवशरीरादौ रोदनादि शोकादिकारणकमवगतमिदमाननविकासादिहर्षहेतुकमेवं शिशोरपि तन्निबन्धनस्तदुत्पादः । तौ च हर्षशोको सुखदुःखसाधनाधिगमतदनुस्मरणान्यतरकारणौ भवितुमर्हतस्तथा दृष्टत्वात् । इह
चास्य न सुखदुःखसाधनपदार्थानुभवस्तदानीमस्तीति तदनुस्मरणमेव हर्ष5 शोकहेतुर्भवेत् । स्मरणमपि तदनुभवप्रभवम्, अनुभवश्चेह जन्मनि सद्यो
जातस्य न समस्तीति जन्मान्तरानुभूतसुखदुःखसाधनानुस्मरणनिमित्तिक एवास्य हर्षशोकसमुत्पाद इति जन्मान्तरानुगमाद् नित्य आत्मा । उक्तविषये शङ्कासमाधाने
नन्वभिनवजीवलोकावलोकालादनिबन्धन एवास्य मुखविकासस्तथा 10 योनिद्वारनिर्गमनोद्गतनिरर्गलक्लेशपीडितस्य रोदनमिति न जन्मान्तरानु
भूतस्मरणं कल्पयितुं युक्तमतिप्रसङ्गात् । मैवम्, सुखदुःखहेतुमीदृशमननुभवतोऽप्यकस्मादेव हर्षशोकदर्शनात् ।
ननु कमलमुकुलविकासादिवत् स्वाभाविकमेव शिशोर्मुखविकाशादिकार्य स्यात् ? स्वाभाविकं नाम किमुच्यते, किमहेतुकम्, अविज्ञातहेतुकम्, 15 अनियतहेतुकं वा ? न तावदहेतुकं कार्यं सम्भवति कार्यत्वहानिप्रसङ्गात् ।
नाप्यविज्ञातहेतुकं तद्भावयितुं युक्तं कार्यमुपलभ्यत इति तद्धेतुपरिज्ञाने यततां भवान्, किमुदास्ते । न चासौ ज्ञातुमशक्यः, कार्यस्यैव तत्र ज्ञापकत्वात् । नाप्यनियतहेतुकं कार्य किञ्चिदस्ति कार्योत्पादननियमेनैव हेतुनियमसिद्धः, अत एव तत्कार्यमुपपादयितुकामास्तन्नियतमेव कारणमुपाददते लौकिकाः ।
यत्राप्यनियतो हेतुर्वृश्चिके गोमयादिकः । अभियुक्तास्तदत्रापि विशेषं न न मन्वते ।।
कल्पयितुं युक्तमतिप्रसङ्गादिति । दृष्टे हेतौ सम्भवति, अदृष्टकल्पनायां हि सर्वत्रैवंप्रसङ्ग इति।
सुखदुःखमोदृशमिति । यादृशमभिनवजीवलोकावलोकनादिजमुक्तम् । कार्यत्वहानिप्रसङ्गादिति । कार्य तदुच्यते यत् केनापि क्रियत इति ।
25