________________
आह्निकम् ] प्रमेयप्रकरणम्
२५९ यदि तु मनोवदेकदेशवृत्तेरणुपरिमाणस्याशु सञ्चरतः शरीराधिष्ठातृत्वमात्मनः कथ्यते, तथापि सहसैव चिरप्रोषितगतागतदयितजनदर्शनोद्गतसकलशरीरव्यापिस्वेदरोमाञ्चादिदर्शनं विरुध्यते, न च द्वयोरण्वोरात्ममनसोः कर्तृकरणव्यवस्थापि निर्वहतीति, तस्मान्नाणुरात्मा ।
न च शरीरपरिमाण इति व्यापक एवावशिष्यते, तदेवं वाराणस्या- 5 मप्ययमात्मा विद्यत एवेति तत्र तत्र तत्कार्यदर्शनमवकल्पते नान्येन गमनादिप्रकारेणेति ।
_ ननु सर्वत्र सुखदुःखज्ञानादिकार्यदर्शनात् सर्वप्राणिनामेक एवात्मा भवेत्, न सुखदुःखव्यवस्थादर्शनाद् बन्धमुक्तविभागोपपत्तेश्चात्मभेदस्य दर्शयिष्यमाणत्वात् ।
10. व्यापिनः कथं कर्तृत्वमिति चेत्, ज्ञानचिकीर्षाप्रयत्नसमवाय एवास्य कर्तृत्वं न व्यापारयोग इति निर्णीतमेतत् ।
ननु व्यापिन्यात्मनि कथं शरीरबहिरण्वपि कार्यं न दृश्यते ? कर्माक्षिप्तशरीरेन्द्रियादिसहकारिसन्निधाननिबन्धनो हि तत्कार्योत्पादः, स कथं बहिर्भवेद् इति ।
तस्मादनन्तरोक्तेन प्रक्रमेणोपपाद्यते ।
नित्यत्वाद् व्यापकत्वाच्च परलोकित्वमात्मनः ।। सूत्रकारमते पारलौकिकात्मप्रतिपादनम्
सूत्रकारस्तु पारलौकिकत्वसिद्धये हेत्वन्तराणि प्रत्यपादयत । सद्यो जातस्य बालस्य वदनविकासरोदनाद्यनुमितो हर्षशोकादियोगस्तावदस्ति । 20 तात्पर्यम् । कर्तृकरणव्यवस्थापीति । व्यापकस्य युगपत् सर्वविषयोपलब्धिप्रसङ्गे सूक्ष्मकरणापेक्षया तदाभावो वक्तुं युज्यते । द्वयोस्तु सूक्ष्मत्वे कर्तृकरणव्यवस्थानां कि नियामकमिति ।
ननु सर्वत्र सुखःदुखज्ञानादीति । सर्वप्राणिनां सर्वत्र सुखदुःखादिकार्यमुपलभ्यते तत्र सर्वव्यापी कल्प्यः, तेन च कल्पितेनैकेनैव कार्यसिद्धे नानात्वकल्पनायां किं 8 प्रमाणमिति ।
15.