________________
२५८
न्यायमञ्जऱ्यां
[ सप्तमम्
. भूतचैतन्यपक्षोऽपि च पुरा पराकृत एव । तस्मादस्ति नित्यः परलोके प्रमातेति । नित्यत्वे सति पूर्वदेहसंबन्धो भविष्यदेहान्तरसम्बन्धश्चास्य न दुरुपपाद: । शरीरान्तरसञ्चारस्तस्य नास्तीति यदुक्तं तद्युक्तमेव, व्यापिनः
सर्वत्र विद्यमानस्यात्मनः कः सञ्चारार्थः ? व्यापित्व एव किं प्रमाणमिति 5 चेत् सर्वत्र कार्योपलम्भः प्रमाणम् । यतो वाराणसीमपि गतस्य मे भवत्येव स्मरणेच्छादिकार्ययोगः, स चात्मैकप्रभवः ।।
आत्मनश्च शरीरस्येव न तत्र गमनम्, अमूर्तत्वात् । न शरीरगुणवत्, तदनाश्रितत्वात्। न प्राणादिवद् अन्तःशरीरवत्तित्वाभावात् । अन्तःशरीरवृत्तित्वे
हि द्वयी गतिरेकदेशवृत्तित्वं सर्वशरीरमापूर्य वा । तत्र सर्वशरीरापूरकत्वे शरीर10 परिमाणानुविषयत्वाद् बालशरीरयुवस्थविरशरीरवत् पूर्वनीत्या परिमाणान्यत्वेन
तदन्यत्वात् पुनरपि प्रतिसन्धानादिकार्यवैधुर्यप्रसङ्गः । करिमशकशरीरयोगे च कर्मपरिणामोपनते तस्य सङ्कोचविकासौ प्राप्नुतः । तौ च नित्यस्य विरुध्येते। एकदेशवृत्तित्वे तु तदनधिष्ठितानामवयवानामनात्मकत्वान्मृतशरीरावयववदयथेष्टविनियोज्यता कष्टीभावः स्यात् ।
प्रदीपवदेतद्देशवृत्तेरप्यात्मनः सकलशरीराधिष्ठातृत्वमिति चेत्, वत्तिप्रदेशोपचिततेजःपिण्डवदेकत्र शरीरावयवे सविशेषचैतन्यसंवित्तिः स्यात् । अस्त्येव हृदयदेशे तदतिशय इति चेन्न, अनुपलम्भात् । दहनहिमकृपाणादिस्पर्शे हि न हृदयस्य प्रदेशान्तरस्य वा शरीरवेदनाविशेषं पश्यामः । तस्मान्न
हृत्पुण्डरीके यावदवस्थानमात्मनः । अत एव 'अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष 20 बलाद् यमः' इति व्यासवचनम् अनेवपरमवगन्तव्यम् ।
भूतार्थं चैतन्यं स्वतन्त्रमेव शरीरारम्भकभूतोपकारकमित्यर्थः । स्मरणेच्छादिकार्ययोग इति । यथेह स्थितेन मया स्मरणेच्छादिकार्ययोगेनात्मास्तित्वं निश्चितम्, एवं वाराणस्यामपि तस्य कार्यस्य दर्शनात् तत्राप्यात्मनो भावः कल्प्यः । अङ्गुष्ठमात्रपुरुषमिति ।
सावित्र्युपाख्याने श्लोकस्य पूर्वमर्धम् 'ततः सत्यवतः कायात् पाशबद्धं वशं गतम् ।' इति । 25 काष्ठभङ्गसञ्जातशिरोवेदनातिशयस्य सत्यवतः स्वाङ्के सुप्तस्य हृदयदेशादात्मानं
निष्कर्षयन्तं यमं सा सावित्री सतीमाहात्म्याद् ददर्शेति । अत एवं परं सतीमाहात्म्येऽस्य