________________
२५७
10.
आह्निकम् ]
प्रमेयप्रकरणम् नान्यजन्मानुभूतमिति । तस्मादूर्ध्वं देहान्नास्त्येव प्रमातेति, नित्यात्मवादमूलपरलोककथाकुरुकुर्वीमपास्य यथासुखमास्यताम् । यथाह,
यावज्जीवं सुखं जीवेन्नास्ति मृत्योरगोचरः ।
भस्मीभूतस्य शान्तस्य पुनरागमनं कुतः ॥ इति । तन्मतखण्डनम्
अत्रोच्यते । न खलु निपुणमिव सुशिक्षितमायुष्मता चार्वाकाचार्यचातुर्यम् । यावच्छरीरमेकमनुयायि प्रमातृतत्त्वमस्तीति यदुक्तवानसि तन्न विस्मर्तुमर्हसि, न चास्तित्वाविनाभावी भावानां विनाशः स्वाभाविकः, किन्तु हेत्वन्तरनिमित्तक इति सौगतैः सह कलहमतिमात्रमधुनैव कृत्वा समर्थितोऽयमर्थः ।
न च विनाशहेतुः प्रमातरि चिरमपि विचार्यमाणः कश्चित् कुतश्चिदवाप्यते । न चानुपलभ्यमानोऽप्यसौ कल्पयितुं पार्यते । न ह्यात्मा पटादिरिव सावयव उपलभ्यते, यदवयवविभागादिना नङ्ग्यतीति गम्यते । उत्पत्तित्मिनो दृष्टा यतस्तदविनाभाविनो निरवयवस्यापि कर्मादेरिव विनाशः प्रतीयेत ।
न चैष कस्यचिदात्मा गुणो येनाश्रयविनाशाद वा विरोधिगुणान्तरप्रादुर्भावाद् वा प्रध्वंसमासादयेत् । न चैवं शक्यते वक्तुं किं विनाशहेत्वनमानेन प्रत्यक्ष एवास्य विनाशो दृश्यत इति, यतो न शरीरवदसौ दह्यमानः शकुनिभिरवलुप्यमानो वा कदाचिदुपलब्ध इति । तस्माद् विनाशादर्शनाद् विनाशहेत्वनुमानासम्भवाच्च अस्ति चेदात्मा नित्य एवेत्यवधार्यताम् । ___ तस्माद् भूतचैतन्यमेव चिरन्तनचार्वाकाचार्यवत् परलोकापलापपरितोषालम्बितयत्किञ्चनकारित्वसुलभसुखासिकासक्तहृदयैर्वरमाश्रितव्यम्, आशरीरमवस्थिते तु प्रमातृतत्त्वे सति न फलन्त्येते परलोकापलापमनोरथाः ।
चिरन्तनचार्वाकाचार्यवदिति । चिरन्तनचार्वाकर्हि भाविविक्तप्रभृतिभिः भूतेभ्यश्चैतन्यम्' इति सूत्रं भूतेभ्य इति पञ्चम्यन्तपदयोजनया व्याख्यातम्, भूतेभ्य उत्पद्यते चैतन्यमिति । उद्भटेन तु 'भूतेभ्यः' इति पदं चतुर्थ्यन्ततया व्याख्यातम्, भूतेभ्यश्चैतन्यं
न्या० म० ३३
20
।