Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 301
________________ २५८ न्यायमञ्जऱ्यां [ सप्तमम् . भूतचैतन्यपक्षोऽपि च पुरा पराकृत एव । तस्मादस्ति नित्यः परलोके प्रमातेति । नित्यत्वे सति पूर्वदेहसंबन्धो भविष्यदेहान्तरसम्बन्धश्चास्य न दुरुपपाद: । शरीरान्तरसञ्चारस्तस्य नास्तीति यदुक्तं तद्युक्तमेव, व्यापिनः सर्वत्र विद्यमानस्यात्मनः कः सञ्चारार्थः ? व्यापित्व एव किं प्रमाणमिति 5 चेत् सर्वत्र कार्योपलम्भः प्रमाणम् । यतो वाराणसीमपि गतस्य मे भवत्येव स्मरणेच्छादिकार्ययोगः, स चात्मैकप्रभवः ।। आत्मनश्च शरीरस्येव न तत्र गमनम्, अमूर्तत्वात् । न शरीरगुणवत्, तदनाश्रितत्वात्। न प्राणादिवद् अन्तःशरीरवत्तित्वाभावात् । अन्तःशरीरवृत्तित्वे हि द्वयी गतिरेकदेशवृत्तित्वं सर्वशरीरमापूर्य वा । तत्र सर्वशरीरापूरकत्वे शरीर10 परिमाणानुविषयत्वाद् बालशरीरयुवस्थविरशरीरवत् पूर्वनीत्या परिमाणान्यत्वेन तदन्यत्वात् पुनरपि प्रतिसन्धानादिकार्यवैधुर्यप्रसङ्गः । करिमशकशरीरयोगे च कर्मपरिणामोपनते तस्य सङ्कोचविकासौ प्राप्नुतः । तौ च नित्यस्य विरुध्येते। एकदेशवृत्तित्वे तु तदनधिष्ठितानामवयवानामनात्मकत्वान्मृतशरीरावयववदयथेष्टविनियोज्यता कष्टीभावः स्यात् । प्रदीपवदेतद्देशवृत्तेरप्यात्मनः सकलशरीराधिष्ठातृत्वमिति चेत्, वत्तिप्रदेशोपचिततेजःपिण्डवदेकत्र शरीरावयवे सविशेषचैतन्यसंवित्तिः स्यात् । अस्त्येव हृदयदेशे तदतिशय इति चेन्न, अनुपलम्भात् । दहनहिमकृपाणादिस्पर्शे हि न हृदयस्य प्रदेशान्तरस्य वा शरीरवेदनाविशेषं पश्यामः । तस्मान्न हृत्पुण्डरीके यावदवस्थानमात्मनः । अत एव 'अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष 20 बलाद् यमः' इति व्यासवचनम् अनेवपरमवगन्तव्यम् । भूतार्थं चैतन्यं स्वतन्त्रमेव शरीरारम्भकभूतोपकारकमित्यर्थः । स्मरणेच्छादिकार्ययोग इति । यथेह स्थितेन मया स्मरणेच्छादिकार्ययोगेनात्मास्तित्वं निश्चितम्, एवं वाराणस्यामपि तस्य कार्यस्य दर्शनात् तत्राप्यात्मनो भावः कल्प्यः । अङ्गुष्ठमात्रपुरुषमिति । सावित्र्युपाख्याने श्लोकस्य पूर्वमर्धम् 'ततः सत्यवतः कायात् पाशबद्धं वशं गतम् ।' इति । 25 काष्ठभङ्गसञ्जातशिरोवेदनातिशयस्य सत्यवतः स्वाङ्के सुप्तस्य हृदयदेशादात्मानं निष्कर्षयन्तं यमं सा सावित्री सतीमाहात्म्याद् ददर्शेति । अत एवं परं सतीमाहात्म्येऽस्य

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384