Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 299
________________ २५६ न्यायमञ्ज [सप्तमम् ननु विमृशति भोगे कर्म नित्योऽपि नात्मा न हि नरकनिमग्नो मन्यते कश्चिदेवम् । किल यदहमकार्षं प्राग्भवे कर्म पापं फलमुपनतमस्माद् भुज्यते तन्मयेति ॥ 5 कार्योपभोगसमये किमनेन कृत्यं नास्य प्रवृत्तिरधुना न निवृत्तिरस्मात् । यस्तु प्रवृत्तिजननौपयिकोऽपमर्शः शास्त्रादसौ भवति शास्त्रविदामवश्यम् ।। विमर्शोऽयं पश्चादपि भवति दृष्टे तु विषये मया यूना यत् तत् किमपि सदसद् वा कृतमभूत् । ' ततो वृद्धोऽद्याहं फलमनुभवामीति तदयं पुमानस्ति स्थायी सुकृतफलभोगादिनिपुणः ॥ नास्त्यात्मा फलभोगमात्रमथ च स्वर्गाय चैत्यार्चनं संस्काराः क्षणिका युगस्थितिभृतश्चैते विहाराः कृताः । सर्वं शून्यमिदं वसूनि गुरवे देहीति चादिश्यते । बौद्धानां चरितं किमन्यदियती दम्भस्य भूमिः परा ।। 15 उद्भटभट्टमते शरीरादूर्ध्व न प्रमातृतत्त्वं विद्यते अत्र सुशिक्षिताश्चार्वाका आहुः, यावच्छरीरमवस्थितमेकं प्रमातृतत्त्वमनुसंधानादिव्यवहारसमर्थमस्तु नाम, कस्तत्र कलहायते, शरीरादूर्ध्वन्तु तदस्तीति किमत्र प्रमाणम् ? न च पूर्वशरीरमपहाय शरीरान्तरं सङ्क्रामति प्रमाता, यदि ह्येवं भवेत् तदिह शरीरे शैशवदशानुभूतपदार्थस्मरणवदतीत20 जन्मानुभूतपदार्थस्मरणमपि तस्य भवेत्, न हि तस्य नित्यत्वाविशेषे च शरीर भेदाविशेषे च स्मरणविशेषे कारणमुत्पश्यामो यद् इह जन्मन्येवानुभूतं स्मरति सुखदुःखजन्मन इति पञ्चमी । ननु विमृशति भोग इति। अतश्च भोगकाले 'एवंरूपं कर्म यन्मया कृतं तस्यैव फलमथवान्यकृतस्य, को विशेषः ?' इति विमृशति नैव कश्चित् कर्मकरणे प्रवर्तते इति । कार्योपभोगसमय इति उत्तरकाले । यस्तु प्रवृत्तिजननौपयिक इति । संसारानित्यत्वादिः विमर्शः । यूना यत् कृतमीश्वरसेवादि । स्वकृतफलभोगादिनियत इति । स्वकृतानां कर्मणां यत् फलभोगादि तेन नियतो नियम्यमानोऽवश्यभावी च कृतकर्मफलोपभोग इत्यर्थः ।

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384