Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 292
________________ 5 आह्निकम् ] प्रमेयप्रकरणम् २४९ प्रत्यक्षमिति प्रत्यक्षमेव क्षणिकत्वानुमानस्य बाधकम्, न चेतरेतराश्रयत्वमनुमानमिथ्यात्वनिबन्धनं प्रत्यभिज्ञाप्रत्यक्षप्रामाण्यानभ्युपगमात्, स्वहेतुबलवत्तयैव प्रत्यभिज्ञा प्रत्यक्षं न तस्येदं दैन्यं यदनुमानमिथ्यात्वे सति तत्प्रमाणीभविष्यतीति । आस्तां वा प्रत्यभिज्ञानं य एष प्रथमक्षणः । स्तम्भादिबोधस्तेनापि बाध्यते क्षणभङ्गिता ॥ तुल्यसामग्रयधीनत्वनिराकृतत्वात् साकारस्य निराकरिष्यमाणत्वादन्वयव्यतिरेकोपकृतमानसप्रत्यक्ष निश्चितजनकस्य चार्थस्यावभास्यत्वनिश्चयादुत्पन्नोऽर्थो ज्ञानं जनयति, जातेन च ज्ञानेन गृह्यत इति बलाद् द्विवक्षणावस्थायित्वमस्योपलभ्यत इति कुतः क्षणिकत्वम् । यदि लब्धस्वरूपोऽपि न नष्टः प्रथमे क्षणे । हेत्वन्तराद् विनाशोऽस्य न स्वरूपनिबन्धनः ।। विचित्रा च पदार्थानां प्रतीतिरिह दृश्यते । चिरन्तनमतिः काचित्काचित्तत्कालजातधीः।। सलिलाहरणव्यग्रकुम्भावगतिरन्यथा । तदैव कन्दुकाकृष्टकुम्भावगतिरन्यथा ।। एतेन रविगुप्तोऽपि परिम्लानमुखीकृतः । क्षणिकत्वक्षमादित्वसमुत्प्रेक्षणपण्डितः ॥ तथा हि वर्तमानवस्तुविग्रहग्राहि विज्ञानमनन्तरोक्तनयेन जनकार्यप्रतिभासनाद् द्विवक्षणस्थायितामर्थस्य गमयतीत्युक्तम् । आद्यञ्च किञ्चिद् 20 विज्ञानमनागतकालस्पशि भवति, यथाह भट्टः 'रजतं गृह्यमाणं हि चिरस्थायीति हि परिमण्डलाकारत्वाद् सर्गदिग्भिर्युगपतृ सम्बध्यते, तथारूपत्वं च अलातस्य नास्ति, अतोऽनुमानेन बाधः। तथाहि अलातधर्मी युगपत् सर्वाभिर्दिग्भिर्न सम्बध्यत इति साध्यम्, अलातत्वात्, भूमिस्थितालातवदित्यनुमानम् । क्षणिकत्वानुमानमन्यथासिद्धम् । क्षणिकत्वपरिहारेणैव सत्त्वस्य प्राङ्नीत्या सम्भवात् । न्या० म० ३२ 25

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384