________________
5
आह्निकम् ] प्रमेयप्रकरणम्
२४९ प्रत्यक्षमिति प्रत्यक्षमेव क्षणिकत्वानुमानस्य बाधकम्, न चेतरेतराश्रयत्वमनुमानमिथ्यात्वनिबन्धनं प्रत्यभिज्ञाप्रत्यक्षप्रामाण्यानभ्युपगमात्, स्वहेतुबलवत्तयैव प्रत्यभिज्ञा प्रत्यक्षं न तस्येदं दैन्यं यदनुमानमिथ्यात्वे सति तत्प्रमाणीभविष्यतीति ।
आस्तां वा प्रत्यभिज्ञानं य एष प्रथमक्षणः ।
स्तम्भादिबोधस्तेनापि बाध्यते क्षणभङ्गिता ॥ तुल्यसामग्रयधीनत्वनिराकृतत्वात् साकारस्य निराकरिष्यमाणत्वादन्वयव्यतिरेकोपकृतमानसप्रत्यक्ष निश्चितजनकस्य चार्थस्यावभास्यत्वनिश्चयादुत्पन्नोऽर्थो ज्ञानं जनयति, जातेन च ज्ञानेन गृह्यत इति बलाद् द्विवक्षणावस्थायित्वमस्योपलभ्यत इति कुतः क्षणिकत्वम् ।
यदि लब्धस्वरूपोऽपि न नष्टः प्रथमे क्षणे । हेत्वन्तराद् विनाशोऽस्य न स्वरूपनिबन्धनः ।। विचित्रा च पदार्थानां प्रतीतिरिह दृश्यते । चिरन्तनमतिः काचित्काचित्तत्कालजातधीः।। सलिलाहरणव्यग्रकुम्भावगतिरन्यथा । तदैव कन्दुकाकृष्टकुम्भावगतिरन्यथा ।। एतेन रविगुप्तोऽपि परिम्लानमुखीकृतः ।
क्षणिकत्वक्षमादित्वसमुत्प्रेक्षणपण्डितः ॥ तथा हि वर्तमानवस्तुविग्रहग्राहि विज्ञानमनन्तरोक्तनयेन जनकार्यप्रतिभासनाद् द्विवक्षणस्थायितामर्थस्य गमयतीत्युक्तम् । आद्यञ्च किञ्चिद् 20 विज्ञानमनागतकालस्पशि भवति, यथाह भट्टः 'रजतं गृह्यमाणं हि चिरस्थायीति
हि परिमण्डलाकारत्वाद् सर्गदिग्भिर्युगपतृ सम्बध्यते, तथारूपत्वं च अलातस्य नास्ति, अतोऽनुमानेन बाधः। तथाहि अलातधर्मी युगपत् सर्वाभिर्दिग्भिर्न सम्बध्यत इति साध्यम्, अलातत्वात्, भूमिस्थितालातवदित्यनुमानम् । क्षणिकत्वानुमानमन्यथासिद्धम् । क्षणिकत्वपरिहारेणैव सत्त्वस्य प्राङ्नीत्या सम्भवात् ।
न्या० म० ३२
25