Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 293
________________ २५० न्यायमञ्ज [ सप्तमम् गृह्यते' इति । उत्तरमपि प्रत्यभिज्ञानं प्रतीतकालावच्छिन्नमर्थमवद्योतयतीति दर्शितम् । न चातीतानागतजन्मग्रहणमाशङ्कनीयमिति कारणसामर्थ्यनियमात्, न ह्यतीतानागतजन्मग्रहणमशक्यक्रियमिति यावदपि दृश्यमानं ग्रहणं तदप्य5 पह्नोतुं युक्तम् । न चैतावतातीतानागतकालावच्छिन्नवर्तमानवस्तुग्रहणमात्रेण सामान्यतो दृष्टेनादृष्टमप्यतीतानागतज्ञानं कल्प्यम्, यथादर्शनं हि वस्तूनि व्यवस्थाप्यन्ते न किञ्चिद् दृष्ट्वा, अन्यदपि कल्प्यते दृष्टमपि वा निस्यत इति । उत्पत्त्यनन्तरमेव विनाशे न प्रत्यक्ष सम्भवति अपि च निमेषदृष्टेरत्रुटितसत्ताकस्तम्भादिपदार्थग्राहि प्रत्यक्षमुत्पद्यते, 10 तत् कथं क्षणिकग्राहि कथ्यते । यच्च तत्र विकल्पितम्, अतीतानागतक्षणयोरसन्निहितत्वेन प्रत्यक्षग्राह्यतानुपपत्तेर्वर्तमानक्षणस्य चातिसूक्ष्मत्वात् तत्कालग्राहिणा प्रत्यक्षेण क्षणिकत्वं गृहीतं भवतीति, तदनुपपन्नम् । मा नाम भूदतीतानागतकालग्रहणं वर्तमान एव तत्रानिमेषदर्शनस्य कियान् काल इति चिन्त्यताम् । निमेषकृतस्यापि 15 दर्शनविच्छेदस्यानवकाशाद् यावद्धि दर्शनं न विच्छिन्नं तावान् वर्तमानः काल ___ इति तद्ग्रहणे स्थैर्य गृहीतं भवति न क्षणिकत्वम् ।। ननु तावानसौ कालः स क्षणसमुदायो भवति न क्षणः । क्षणश्चैक एव वर्तमानो भवति, न ततः पूर्वापरौ क्षणावतीतानागतौ भवतः, तयोश्च न ग्रहणमित्युक्तम्, सिद्धे क्षणिकत्वे एवं शक्यते वक्तुं न तु तत्साधनावसरे । 20 कालो ह्येको नित्यो विभुरिति साधितोऽनुमानपरीक्षायाम् । न तु क्षणसमुदायात्मा कालः । कालस्य तु भेदाः क्रियोपजनविनाशाद्युपनिबन्धनाः कल्प्यन्त निमेषकृतस्यापीति । अनिमेषदृष्टिमङ्गीकृत्य कथनात् तत्कृतो दर्शनविच्छेदोऽनवकाशोऽसम्भवीति । तद्ग्रहणे यावति दर्शनं न विच्छिन्नं तावद्वर्तमानकालविशिष्ट वस्तुग्रहणे। 25. ननु तावानसौ काल इति । क्षणसमुदायो वर्तमानादिक्षणसमुदायः, न वर्तमान एक एनेत्यर्थः । कालस्य तु भेदाः क्रियोपजनेति । यदा क्रियोपजायते तदा वर्तमानता, उपरतायामतीतता, अनागतायां भविष्यत्तेति ।

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384