________________
आह्निकम् ]
प्रमेयप्रकरणम्
२२७
कतिपयक्षणव्यवधाने तु करोतीति । यद्येवं न कदाचित् कार्योत्पादः स्यात्, कार्योत्पादसमयेऽपि कतिपयक्षणव्यवहितकार्यजननस्वभावानपायात्, पुनः कतिपयक्षणाद्यवेक्षणं स्यात् तेष्वपि कतिपयेषु क्षणेष्वतिक्रान्तेषु स एवास्य स्वभावस्तदवस्थ इति पुनरप्येवं भवेदिति कदा नाम कार्यं जनयेत् ? तदेवमादिदोषोपहतत्वान्न क्रमेण भावानामर्थक्रियासामर्थ्यम् ।
5
I
नापि युगपत्, लोके तथा व्यवहारादर्शनात् । युगपत् कृतकस्यापि स्थिरस्य पुनरकरणे हेत्वभाव:, पुनश्च कुर्वन्नपि भावः कार्यं न तदेव कुर्यात्, कृतस्य करणायोगात्, कार्यान्तरकरणे तु स एवायं पुनः क्रमपक्ष आपतेदित्येवं क्रमयौगपद्ये नित्येभ्यः पदार्थेभ्यो निवर्तेते, ते च निवर्तमाने सत्त्वस्य व्यापके इति सत्त्वं तेभ्य आदायैव निवर्तेते, तेभ्यः प्रच्युतं सत्त्वं गत्यन्तरविरहात् क्षणिकेष्वेव निविशते । अतो यद्यपि कार्ये हेतौ धूमाग्न्योरिव स्वभावतावपि वा क्वचिद् वृक्षत्वशिशपात्वयोरिव पूर्वमिह साध्यसाधनधर्मयोर्ग्रहणं धर्म्यन्तरे न वृत्तं तथापि साध्यधर्मिण्येव व्याप्तिग्रहणमुपपत्स्यते विपक्षव्यावृत्तेः सुपरिनिश्चितत्वात् । यैव च विपक्षाद् व्यावृत्तिः स एव चास्य हेतोः स्वसाध्येनान्वयः । न ह्येवं सम्भवति नित्येभ्यश्च व्यावृत्तं सत्त्वं क्षणिकेषु 15 च न निष्ठमिति, तृतीयराश्यभावान्निराश्रयत्वानुपपत्तेश्च । तदेवं क्वचिद्धर्मिणि गृहोतायां यदि स एव कदाचित् परं प्रति दृष्टान्तोक्रियते, तदैवं नाम भवतु, को दोष इति ?
10
ननु व्यापकानुपलब्धेरनुमानमनुमानेन चानुमानस्य व्याप्तिग्रहणेSनवस्था ? नानवस्था, तावत्येव पर्यवसानात् । न हि व्यापकानुपलब्धेरनु - 20 मानान्तराद्व्याप्तिनिश्चयः, किन्तु प्रत्यक्षविकल्पादेव । तदनया व्याप्तिनिश्चयात्
लोके तथा व्यवहारादर्शनादिति । स्नान - भोजन - शयनादीनां युगपत् क्रियाया अदृष्टेरित्यर्थः । तृतीयराश्यभावादिति । क्षणिकाक्षणिकापराया अभावात् ।
ननु व्यापकानुपलब्धेरनुमानमिति । तथाहि यथा सत्त्वं क्षणिकत्वसाधने व्याप्तिग्रहणमपेक्षते, अगृहीतव्याप्तिकस्य हेतोरगमकत्वात् एवं व्यापकानुपलब्धे - 25 रप्यनुमानत्वाद् व्याप्तिग्रहणमवश्यापेक्षणीयम्, अनपेक्षणे वा क्षणिकत्वानुमानस्यापि न स्यादपेक्षणम्, अनुमानत्वाविशेषात् । अनुमानान्तराद् व्याप्तिनिश्चय इति । ययोर्धर्मंयोर