________________
२२६
न्यायमञ्ज
[ सप्तमम्
___ न तावत् क्रमेण, स हि समर्थो वा असमर्थो वा ? समर्थश्चेत् क्रमेण कथम् ? समर्थस्य क्षेपायोगात् । असमर्थस्त्वसमर्थत्वादेव न करोति किञ्चिदिति तस्यापि कि क्रमेण? सहकार्यपेक्षया करोतीति चेत्, न, असमर्थस्य सहकारिणापि सामर्थ्याधानानुपपत्तेः, समर्थस्य स्वत एव सामर्थ्य सति सहकारित्ववैयर्थ्यात् । सहकारिसन्निधानेऽपि चास्य स्वरूपेण वा कर्तृत्वं स्यात् पररूपेण वा ? स्वरूपस्य च प्रागपि भावात् तस्य च कारकत्वात् किं सहकारिणा ? पररूपेण कर्तृत्वे पूर्वरूपपरित्यागात् तद्रूपान्तरापत्तेश्च क्षणिकत्वमुपपद्यते। एवं सहकार्यपि समर्थासमर्थतया विकल्पनीयः । स्वतोऽपि सामर्थ्य किं परोप
करणदैन्येन ? असमर्थस्य तु सचिवः किमागत्यापि सर्वत्र कार्ये साचिव्यमप10 गच्छेत् ?
किञ्चित्करश्चेत्, वक्तव्यं किं करोतीति । उपकारमिति चेत्, स उपक्रियमाणाद्भिन्नोऽभिन्नो वा ? अभिन्नश्चेत्, स एव कृतः स्यात्; भेदे तस्य किमा
यातम्, यदसौ न पूर्ववदास्ते । कार्यादपि भेदाभेदाभ्यां चिन्त्य उपकारः । १. न कार्याद्भिन्नोऽनुपलम्भाद् द्वयकारणभावाच्च । कार्यादव्यतिरिक्त तूपकारे 15 सहकारिणा क्रियमाणे कार्यमेव तेन कृतं स्यादिति मूलकारणानर्थक्यम् ।
ननु चैक एव भावः कारकः, स एव हि समर्थस्तदितरपदार्थसन्निधानन्तु स्वहेतुवशादुपनतमिति नोपालम्भमर्हति । नैतद्युक्तम् । एकस्य कदाचिदपि कारकत्वानुपलब्धेस्तत्सामर्थ्यस्य दुरधिगमत्वात् । एवं ह्यसौ
समर्थ उच्यते यद्यकः कदाचित् कार्यमुत्पादयन् दृश्येत न तु विस्मृत्यापि 20 दृश्यते। अथ कार्यस्यायं स्वभावो यदेकस्मान्नोत्पद्यते कारणन्तु शक्तमेवेति ।
तदप्ययुक्तम् । कार्यस्वभावपराधीनत्वेन कारणस्य सामर्थ्यविरहप्रङ्गात् । एवं ह्यसौ समर्थः कथ्येत यदि कार्यस्वभावमनादृत्य स्वतन्त्र एक एव प्रसह्य
कार्यं जनयेत्, न चैवं दृश्यत इति यत्किञ्चिदेतत् । 25
अथ समर्थमेव कारणं तस्य त्वयं स्वभावो यत् सहसैव कार्यं न करोति,
कार्यादपि भेदाभेदाभ्यामिति । कि कार्यमेवोपकार उत तदन्य इत्यर्थः।