________________
२२५
आह्निकम् ]
प्रमेयप्रकरणम् तच्च स्वग्राहकाद्बोधादसन्दिग्धं प्रतीयते । ज्ञानोत्पत्त्यैव तद्धेतोरसामर्थ्य पराकृते ॥ असमर्थात् समुत्पादो दृश्यते न हि कस्यचित् । शक्ताशक्तप्रसक्तत्वे तत्र बोधोऽस्ति संशयः ॥ अत एव च तज्ज्ञानं प्रमाणं जगदुः स्वतः ।
स्वरूपे शक्तिजत्वे तु संशयादेरसम्भवात् ॥ किमिदं रजतमुत शुक्तिकेति विशेषांशे संशेरतां नाम प्रमातारः, न तु सामर्थ्य प्रति दोला काचित् सम्भवति, किमिदं ज्ञानं समर्थेन जनितमुत तदितरेणेत्यसमर्थस्य जनकत्वानुपपत्तेः, व्यापकानुपलम्भस्यापि व्याप्तिग्राहिणः स्वतःप्रामाण्यम, संशयविपर्यययोस्तत्राप्यभावात् । ___ कथं पुननित्येषु पदार्थेषु सत्त्वव्यापकयोः क्रमयोगपद्ययोरनुपलम्भः ? उच्यते । नित्यो हि भावः क्रमेण वा कार्यं कुर्याद् यौगपद्येन वा, परस्परविरहस्थितात्मनां तृतीयप्रकारानुपपत्तेः ।
तच्च स्वग्राहकाद् बोधादिति । य एव पदार्थस्य ग्राहको बोधः स एव तत्सत्त्वनिश्चायकः । प्रमाणं जगदुः स्वतः इति । यदाहुः,
- विषयाकारभेदाच्च धियोऽधिगमभेदतः ।
भावादेवास्य तद्भावे स्वरूपस्य स्वतो गतिः ॥ विशेषांशे संशेरतां नाम जनाः, न पुनः सत्त्वे संशेरते, असतो ज्ञानजनकत्वाभावात् । संशयविपर्यययोस्तत्राप्यभावादिति । यथा वृक्षत्वस्य व्यापकस्यानुपलम्भाद् व्याप्यस्य शिंशपात्वस्याभावे न सन्देहस्तथा क्रमयोगपद्यलक्षणस्य व्यापकस्याक्षणिके- 20 ऽनुपलम्भात् तद्व्याप्तस्य सत्त्वस्याभावो निःसंदेहः, अतः सत्त्वं तेभ्यो निवर्तमानं क्षणिकेज्वेवावतिष्ठत इति व्यापकानुपलम्भेन सत्त्वक्षणिकत्वयोर्व्याप्तिग्रहः ।
परस्परव्यवच्छेदव्यवस्थितात्मनां तृतीयप्रकारानुपपत्ते रिति, यथा नित्यानित्यादयः सदसदादयश्च परस्परपरिहारव्यवस्थितात्मानस्तथा क्रमोऽप्यक्रमव्यवच्छेदेनैव व्यवस्थितः। क्रमव्यवस्थापकेन प्रमाणेन ततोऽन्योऽक्रमत्वेन व्यवस्थाप्यते । अक्रमश्च 25 यौगपद्यम् । सोऽपि प्रमाणादवगम्यमानः क्रमव्यवच्छेदेनैव गम्यते नीलमिवानीलव्यवच्छेदेन । यदा तु तृतीयो राशिः क्रमाक्रमरूपोऽभ्युपेयते तदैकस्य विरुद्धरूपद्वययोगिता युगपदिति ।
न्या० म० २९