________________
२२४ न्यायमञ्ज
[सप्तमम् प्रसङ्गात् क्षणिकपदार्थवादः
कथं पुनरेष सकलप्रमातीतः क्षणिकपदार्थवादः शक्यते शाक्यैरभ्युपगन्तुम् ?
न खलु क्षणभङ्गित्वे भावानामक्षजा मतिः । न भूमिरनुमानस्य विकल्पनियतस्थितेः ।। स्मरणप्रत्यभिज्ञाने प्रत्युत स्थैर्यसाधके ।
एवञ्च वञ्चनामात्रमाशुनाशित्वदेशना ॥ उच्यते । प्रत्यक्षगम्यं क्षणिकत्वं भवति न भवत्येष करिष्यते विचारः । अनुमानन्तु सम्प्रत्येवमभिधीयते । सत्त्वात् क्षणिकाः पदार्था इति । सत्त्वं 10 तावदर्यक्रियाकारित्वमुच्यते । यथार्थमर्थक्रियासमर्थं यत् तदेव परमार्थ
सदिति । सत्प्रत्ययगम्यत्वे हि सत्त्वे केशोण्डकादेरपि सत्त्वप्रसङ्गः । सत्तासम्बन्धे सत्त्वे सामान्यादीनां तदसम्बन्धादसत्त्वं स्यात् । अर्थक्रियासामर्थ्यसत्त्वानुवर्ती च लौकिको व्यवहारः । सत्यपि पुत्रे तत्कार्यादर्शनादपुत्रा वयमिति
व्यपदिशन्ति लौकिकाः, । पुत्रादन्यस्मिन्नपि तत्कार्यकारिणि सति सपुत्रा 15 वयमिति च ब्रुवते । तस्मादर्थक्रियाकारित्वमेव सत्त्वम् । भवत्वेवम् । तस्य तु
कुत्र कथं वा क्षणिकत्वेन व्याप्तिग्रहणम् ? कुत्रेति यत् पृच्छसि यत्र रोचते महाभागाय घटे पटे वा गृह्यतां व्याप्तिः, किं साध्यमिण्येव व्याप्तिग्रहणमुपपद्यते ? धीमन् ! कोऽत्र प्रमादः ? न हि दैवनिर्मितः कश्चित् साध्यधर्मी
नाम ग्रहीतुं शक्यते चेद् व्याप्तिर्यत्र तत्र सा गृह्यतामिति । तदुच्यते । 20 भावानां हि सत्त्वं क्षण (क्रम) यौगपद्याभ्यां व्याप्तम् ।
नित्येषु च पदार्थेषु व्यापकानुपलम्भनात् । तद्व्याप्तमपि सत्त्वं हि बलात्तेभ्यो निवर्तते ॥ न च राशिस्तृतीयोऽस्ति तेन गत्यन्तरक्षयात् ।
क्षणिकानेव तान् भावान् सत्त्वं समवलम्बते ।। 25 न भूमिरनुमानस्येति, यत्र धूमस्तत्राग्निरिति तदपि नाभावात्मके विकल्पे नियता
प्रतिबद्धा स्थितिर्यस्य ।